Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 353
________________ प्रमेयरनमाला अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसुखपरमाणुघटवत् ॥ ४१॥ इन्द्रियमुखमसिद्धसाध्यं तस्य पौरुषेयत्वात् । परमाणुरसिद्धसाधनं तस्य मुर्तत्वात् । घटश्चासिद्धोभयः पौरुषेयत्वान्मूर्तत्वाच्च ॥ साध्यव्याप्तं साधनं दर्शनीयमिति दृष्टान्तावसरे प्रतिपादितं तद्विपरीतदर्शनमपि तदाभासमित्याह विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् ॥ ४२ ॥ कुतोऽस्य तदाभासतेत्याह विद्युदादिनाऽतिप्रसङ्गात् ॥ ४३ ॥ तस्याप्यमूर्ततामातेरित्यर्थः । व्यतिरेकोदाहरणाभासमाहव्यतिरेके सिद्धत व्यतिरेकाः परमाण्विन्द्रियसुखाकाशवत्॥४४॥ अपौरुषेयः शब्दोऽमूर्तत्वादित्यत्रैवासिद्धाः साध्यसाधनोभयव्यतिरेका योति विग्रहः । तत्रासिद्धसाध्यव्यतिरकः परमाणुस्तस्यापौरुषेयत्वात् इन्द्रिमसुखमसिद्धसाधनव्यतिरकम् ॥ आकाशं त्वसिद्धोभयव्यतिरकमिति । साध्याभावे साधनव्यावृत्तिरिति व्यतिरेकोदाहरणप्रघट्टके ख्यापितं तत्र तद्विपरीतमपि तदाभासमित्युपदर्शयति विपरीतव्यतिरेकश्च यन्नामूर्त तन्नापौरुषेयम् ॥ ४५ ॥ बालव्युत्पत्यर्थं तत्रयोपगम इत्युक्तमिदानी तान्मत्येव कियद्धीनतायां प्रयोगाभासमाह बालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता ॥ ४६॥ तदेवोदाहरति अग्निमानयं देशो धूमवत्वात् यदित्थं तदित्थं यथा महानस इति ॥ ४ ॥ इत्यवयवत्रयप्रयोगे सतीत्यर्थः । चतुरवयवपयोगे तदाभासत्वमाह धूमवांश्चायमिति वा ॥४८॥ .. अवयवविपर्ययेऽपि तत्त्वमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362