Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 354
________________ प्रमेयरत्नमाला तस्मादग्निमान् धूमवांश्चायमिति ॥ ४६॥ कथमवयवविपर्यये प्रयोगाभास इत्यारेकायामाह स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् ॥ ५० ॥ इदानीमागमाभासमाह रागद्वेषमोहाक्रान्तपुरुषवचनाजातमागमाभासम् ॥५१॥ उदाहरणमाहयथा नद्यास्तीरे मोदकराशयः सन्ति, धावध्वं माणवकाः ॥५२॥ कश्चिन्माणवकैराकुलीकृतचेतास्तत्सङ्गपरिजिहीर्षया प्रतारणवाक्येन नद्या देशं तान् प्रस्थापयतीत्यात्सोक्तेरन्यत्वादागमाभासत्वम् । मथमोदाहरणमात्रेणातुष्यन्नुदाहरणान्तरमाह अंगुल्यो हस्तियूथशतमास्त इति च ॥ ५३ ॥ अत्रापि सांख्यपशुः स्वदुरागमजनितवासनाहितचेता दृष्टेष्टविरुदं सर्व सर्वत्र विद्यत इति मन्यमानस्तथोपदिशतीत्यनाप्तवचनत्वादिदमपि तथेत्यर्थः ॥ कथमनन्तरयोर्वाक्ययोस्तदाभासत्वमित्यारेकायामाह _ विसंवादात् ॥ ५४॥ अविसंवादरूपप्रमाणलक्षणाभावान तद्विशेषरूपमपीत्यर्थः ॥ इदानीं संख्याभासमाह प्रत्यक्षमेवैकं प्रमाणमित्यादि संख्याभासम् ॥ ५५॥ प्रत्यक्षपरोक्षभेदात् द्वैविध्यमुक्तं तद्वैपरीत्येन प्रत्यक्षमेव प्रत्यक्षानुमाने, एवेत्यायवधारणं संख्यामासम् ॥ प्रत्यक्षमेवैकमिति कथं संख्याभासमित्याहलौकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परबुद्धया देश्चासिद्धरतद्विषयत्वात् ॥५६॥ अतद्विषयत्वात् अप्रत्यक्षविषयत्वादित्यर्थः । शेषं सुगमम् ॥ मपश्चितमेवैतत्संख्याविप्रतिपत्तिनिराकरण इति नेह पुनरुच्यते ॥ इतरवादिप्रमाणे Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 352 353 354 355 356 357 358 359 360 361 362