Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 356
________________ प्रमेयरनमाला सहकारिसान्निध्यात् तत्करणानेति चेदत्राह परापेक्षणे परिणामित्वमन्यथा तदभावात् ॥ ६४ ॥ वियुक्तावस्थायामकुर्वतः सहकारिसमवधानवलायां कार्यकारिणः पूर्वोतराकारपरिहारावाप्तिस्थितिलक्षणपरिणामोपपत्तरित्यर्थः । अन्यथा कार्यकारणाभावात् । प्रागभावावस्थायामेवेत्यर्थः । अथ द्वितीयपक्षदोषमाह स्वयमसमर्थस्य प्रकारकत्वात्पूर्ववत् ॥ ६५ ॥ अथ फलाभासं प्रकाशयन्नाह फलाभासं प्रमाणादभिन्नं भिन्नमेव वा ॥६६॥ , कुतः पक्षद्वयेऽपि तदाभासतेत्याशङ्कायामाद्यपक्षे तदाभासत्वे हेतुमाह . अभेदे तद्व्यवहारानुपपत्तेः॥ ६७ ॥ फलमेव प्रमाणमेव वा भवेदिति भावः । व्यावृत्त्या संवृत्यपरनामधेयया तत्कल्पनाऽस्त्वित्याह व्यावृत्त्याऽपि न तत्कल्पना फलान्तराव्या वृत्त्याऽफलत्वप्रसङ्गात् ॥ ६८॥ ___ अयमर्थ:-यथा फलाद्विजातीयात् फलस्य व्यावृत्त्या फलव्यवहारस्तथा फलान्तरादपि सजातीयाव्यावृत्तिरप्यस्तीत्यफलत्वम् । अत्रैवाभेदपचे दृष्टान्तमाह प्रमाणाव्यावृत्त्येवाप्रमाणत्वस्येति ॥६६॥ अत्रापि प्राक्तन्येव प्रक्रिया योजनीया ॥ अभेदपक्षं निराकृत्य प्राचार्य उपसंहरति तस्मादास्तवोऽभेद इति ॥ ७० ॥ भेदपत्रं क्षयन्नाह भेदे त्वात्मान्तरवत्तदनुपपत्तेः॥ ७१ ॥ अब मत्रैवात्मनि प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणप्रत्यासत्त्या प्रमाणफलव्यवस्थितिरिति ॥ नात्मान्तरे तत्मसङ्ग इति चेचदपि न नित्याह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362