Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown
View full book text
________________
प्रमेयरत्नमाला इष्टमबाधितमित्यादि तल्लक्षणमुक्तमिदानीं तद्विपरीतं तदामासमिति कथयति
अनिष्टो मीमांसकस्यानित्यः शब्दः ॥१३॥ असिद्धाद्विपरीतं तदाभासमाह
सिद्धः श्रावणः शब्द इति ॥१४॥ अबाधितमविपरीतं तदाभासमावेदयन् स च प्रत्यक्षादिवाधित एवेति दर्शयबाह
बाधितः प्रत्यक्षानुमानागमलोकस्ववचनैः ॥ १५ ॥ - एतेषां क्रमेणोदाहरणमाह
तत्र प्रत्यक्षबाधितो यथा अनुष्णोऽग्नि
व्यत्वाजलवत् ॥१६॥ स्पर्शनप्रत्यक्षण हुष्णस्पर्शात्मकोग्निरनुम्यते ॥ अनुमानबाधितमाह
. अपरिणामी शब्दः कृतकत्वात् घटवत् ॥ १७ ॥ अत्र पक्षोऽपरिणामी शब्दः कृतकत्वादित्यनेन बाध्यते ॥भागमबाधितमाह
प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितत्वादधर्मवत् ॥ १८॥ आगमे हि पुरुषाश्रितत्वाविशेषेऽपि परलोके धर्मस्य मुखहेतुत्वमुक्तम् । लोकबाधितमाह
शुचि नरशिरःकपालं प्राण्यंगत्वाच्छंखशुक्तिवत् ॥१६॥ लोके हि प्राण्यंगत्वेऽपि कस्यचिच्छुचित्वमशुचित्वं च । तत्र नरकपालादीनामशुचित्वमेवेति लोकबाधितत्वम् । स्ववचनबाधितमाह
माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भत्वात्प्र
सिद्धवन्ध्यावत् ॥२०॥ इदानी हेत्वाभासान् क्रमापभानाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362