Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 346
________________ प्रमेयरत्नमाला साधारणभासुरत्वादिगुणः प्रदीपः तथा चायं तस्मात्तथेति । तदसाधारणगुणा ज्ञानदर्शन सुखवीर्यलक्षणास्ते च सर्वाङ्गीणास्तत्रैव चोपलभ्यन्ते || सुखमाहादनाकारं विज्ञानं मेयबोधनम् । शक्तिः क्रियानुमेया स्याद्यूनः कान्तासमागमः || १ || इति वचनात् ॥ तस्मादात्मा देहप्रमितिव स्थितः ॥ द्वितीयं विशेषभेदमाह ६२ श्रर्थान्तरगतो विसदृश परिणामो व्यतिरेको गोमहिषादिवत् ॥ ८ ॥ सादृश्यं हि प्रतियोगिग्रहणे सत्येव भवति । न चापेक्षिकत्वादस्यावस्तुत्वमवस्तुन्यापेक्षिकत्वायोगात् । अपेक्षाया वस्तुनित्वात् ॥ स्यात्कारलाञ्छितमबाध्यमनन्तधर्मसंदोहवर्मितमशेषमपि प्रमेयम् ॥ देवैः प्रमाणबलतो निरचायि यच्च संक्षिप्तमेव मुनिभिर्विष्टतं मयैतत् ॥ १ ॥ इति परीक्षामुखस्य लघुवृत्तौ विषयसमुद्देशश्चतुर्थः ॥ ४ ॥ अथेदानीं फलविप्रतिपत्तिनिरासार्थमाहज्ञाननिवृत्तिनोपादानोपेक्षाश्च फलम् ॥ १ ॥ द्विविधं हि फलं साक्षात्पारम्पर्येति । साक्षादज्ञाननिवृत्तिः पारम्पये हानादिकमिति, प्रमेयनिश्चयोत्तरकालभावित्वात्तस्येति ॥ तद्द्द्विविधमपि फलं प्रमाणाद्भिन्नमेवेति यौगाः । श्रभिन्नमेवेति सौगताः । तन्मतनिरासेन स्वमतं व्यवस्थापयितुमाह 1 Jain Education International -- प्रमाणादभिन्नं भिन्नं च ॥ २ ॥ कथञ्चिदभेद समर्थनार्थं हेतुमाह यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः ॥ ३ ॥ अयमर्थः – यस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362