Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 332
________________ ४८ प्रमेयरत्नमाला योहणे सति भवति । तद्ग्रहणं च नाध्यक्षतस्तयोरतीन्द्रियत्वात् ॥ अनुमानतस्तद्ग्रहणेऽपि न साध्येन सम्बन्धस्तयोनिश्चेतुं पार्यते । प्रत्यक्षगृहीतस्यैव तत्सम्बन्धाभ्युपगमात् ॥ न च कालाख्यं द्रव्यं मीमांसकस्यास्ति । प्रसङ्गसाधनाददोष इति चेन । परम्पति साध्यसाधनयोाप्यव्यापकभावाभावादिदानीमपि देशान्तरे वेदकारस्याष्टकादेः सौगतादिभिरभ्युपगमात् ।। यदप्यपरं वेदाध्ययनमित्यादि तदपि विपक्षेऽपि समानम्-"भारताध्य. यनं सर्व गुर्वध्ययनपूर्वकम् । तदध्ययनवाच्यत्वादधुनाध्ययनं यथे"ति ॥१॥ यच्चान्यदुक्तम्-अनवच्छिन्नसम्पदायत्वे सत्यस्मयमाणकर्तृत्वादिति । तत्र जीर्णकपारामादिभिर्व्यभिचारनिवृत्यर्थमनवच्छिन्नसम्प्रदायत्वविशेषणेपि विशेष्यस्यास्मर्यमाणकतैकत्वस्य विचार्यमाणस्यायोगादसाधनत्वम् ॥ कतुरस्मरणं हि वादिनः प्रतिवादिनश्च सर्वस्य वा ? वादिनश्चेदनुपलब्धेरभावाद्वा ? । आये पक्षे पिटकत्रयेऽपि स्यादनुपलब्धेरविशेषात् ॥ तत्र परैः कर्तुरङ्गीकरणान्नो चेत् । अत एवात्रापि न तदस्तु । अभावादिति चेदस्मात्तदभावसिद्धावितरेतराऽऽश्रयत्वम् । सिद्धे हि तदभावे तन्निबन्धनं तदस्मरणमस्माच्च तदभाव इति ॥ प्रामाण्यान्यथानुपपत्तेस्तदभावान्नेतरेतराश्रयत्वमिति चेन्न । प्रामाण्येनाप्रामाण्यकारणस्यैव पुरुषविशेषस्य निराकरणात पुरुषमात्रस्यानिराकृतेः॥ अथातीन्द्रियार्थदार्शनोऽभावादन्यस्य च प्रामाण्यकारणत्वानुपपत्तेः सिद्ध एव सर्वथा पुरुषाभाव इति चेत् कुतः सर्वज्ञाभावो विभावितः । प्रामाण्यान्यथानुपपत्तेरिति चेदितरेतराश्रयत्वम् । कर्तुरस्मरणादिति चेचक्रकप्रसङ्गः अभावप्रमाणादिति चेन्न । तत्साधकस्यानुमानस्य प्राक्प्रतिपादितत्वादभावप्रमाणोत्थानायोगात् प्रमाणपञ्चकाभावेऽभावप्रमाणप्रवृत्तेः-"प्रमाणपञ्चकं यत्र वस्तुरूपण जायते । वस्तुसत्तावबोधार्थ तत्राभावप्रमाणते"ति परैरभिधानात् । ततो न वादिनः कर्तुरस्मरणमुपपन्नम् ॥ नापि प्रतिवादिनोऽसिद्धेः । तत्र हि प्रतिवादी स्मरत्येव कर्तारमिति ॥ नापि सर्वस्य, वादिनो वेदकर्तुरस्मरणेऽपि प्रतिवादिनः स्मरणात् ॥ ननु प्रतिवादिना वेदेऽष्टकादयो बहवः कर्तारः स्मर्यन्तेऽतस्तत्स्मरणस्य विवादविषयस्यामामाण्याद्भवेदेव सर्वस्य कर्तुरस्मरणमिति चेत् न । कर्तृविशेषविषय एवासौ विवादो न कर्तृसामान्ये ॥ अतः सर्वस्य कर्तुरस्मरणमप्यसिद्धम् । सर्वात्मज्ञानविज्ञानराहतो वा कथं सर्वस्य कर्तुरस्मरणमवैति । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362