________________
४८
प्रमेयरत्नमाला
योहणे सति भवति । तद्ग्रहणं च नाध्यक्षतस्तयोरतीन्द्रियत्वात् ॥ अनुमानतस्तद्ग्रहणेऽपि न साध्येन सम्बन्धस्तयोनिश्चेतुं पार्यते । प्रत्यक्षगृहीतस्यैव तत्सम्बन्धाभ्युपगमात् ॥ न च कालाख्यं द्रव्यं मीमांसकस्यास्ति । प्रसङ्गसाधनाददोष इति चेन । परम्पति साध्यसाधनयोाप्यव्यापकभावाभावादिदानीमपि देशान्तरे वेदकारस्याष्टकादेः सौगतादिभिरभ्युपगमात् ।। यदप्यपरं वेदाध्ययनमित्यादि तदपि विपक्षेऽपि समानम्-"भारताध्य. यनं सर्व गुर्वध्ययनपूर्वकम् । तदध्ययनवाच्यत्वादधुनाध्ययनं यथे"ति ॥१॥ यच्चान्यदुक्तम्-अनवच्छिन्नसम्पदायत्वे सत्यस्मयमाणकर्तृत्वादिति । तत्र जीर्णकपारामादिभिर्व्यभिचारनिवृत्यर्थमनवच्छिन्नसम्प्रदायत्वविशेषणेपि विशेष्यस्यास्मर्यमाणकतैकत्वस्य विचार्यमाणस्यायोगादसाधनत्वम् ॥ कतुरस्मरणं हि वादिनः प्रतिवादिनश्च सर्वस्य वा ? वादिनश्चेदनुपलब्धेरभावाद्वा ? । आये पक्षे पिटकत्रयेऽपि स्यादनुपलब्धेरविशेषात् ॥ तत्र परैः कर्तुरङ्गीकरणान्नो चेत् । अत एवात्रापि न तदस्तु । अभावादिति चेदस्मात्तदभावसिद्धावितरेतराऽऽश्रयत्वम् । सिद्धे हि तदभावे तन्निबन्धनं तदस्मरणमस्माच्च तदभाव इति ॥ प्रामाण्यान्यथानुपपत्तेस्तदभावान्नेतरेतराश्रयत्वमिति चेन्न । प्रामाण्येनाप्रामाण्यकारणस्यैव पुरुषविशेषस्य निराकरणात पुरुषमात्रस्यानिराकृतेः॥ अथातीन्द्रियार्थदार्शनोऽभावादन्यस्य च प्रामाण्यकारणत्वानुपपत्तेः सिद्ध एव सर्वथा पुरुषाभाव इति चेत् कुतः सर्वज्ञाभावो विभावितः । प्रामाण्यान्यथानुपपत्तेरिति चेदितरेतराश्रयत्वम् । कर्तुरस्मरणादिति चेचक्रकप्रसङ्गः अभावप्रमाणादिति चेन्न । तत्साधकस्यानुमानस्य प्राक्प्रतिपादितत्वादभावप्रमाणोत्थानायोगात् प्रमाणपञ्चकाभावेऽभावप्रमाणप्रवृत्तेः-"प्रमाणपञ्चकं यत्र वस्तुरूपण जायते । वस्तुसत्तावबोधार्थ तत्राभावप्रमाणते"ति परैरभिधानात् । ततो न वादिनः कर्तुरस्मरणमुपपन्नम् ॥ नापि प्रतिवादिनोऽसिद्धेः । तत्र हि प्रतिवादी स्मरत्येव कर्तारमिति ॥ नापि सर्वस्य, वादिनो वेदकर्तुरस्मरणेऽपि प्रतिवादिनः स्मरणात् ॥ ननु प्रतिवादिना वेदेऽष्टकादयो बहवः कर्तारः स्मर्यन्तेऽतस्तत्स्मरणस्य विवादविषयस्यामामाण्याद्भवेदेव सर्वस्य कर्तुरस्मरणमिति चेत् न । कर्तृविशेषविषय एवासौ विवादो न कर्तृसामान्ये ॥ अतः सर्वस्य कर्तुरस्मरणमप्यसिद्धम् । सर्वात्मज्ञानविज्ञानराहतो वा कथं सर्वस्य कर्तुरस्मरणमवैति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org