________________
प्रमेयरत्नमाला तस्मादपौरुषयत्वस्य वेदे व्यवस्थापयितुमशक्यत्वान्न तल्लक्षणस्याव्यापकत्वमसम्भवितत्वं वा सम्भवति ॥ पौरुषेयत्वे पुनः प्रमाणानि बहूनि सन्त्येव सजन्ममरणर्षिगोत्रचरणादिनामश्रुतेरनेकपदसंहतिप्रतिनियमसंदर्शनात्फलार्थिपुरुषप्रवृत्तिनिवृत्तिहेत्वात्मनां श्रुतेश्च मनुसूत्रवत् पुरुषककैव श्रुतिरिति वचनात् ॥ अपौरुषेयत्वेऽपि वा न प्रामाण्यं वेदस्योपपद्यते तद्धेतूनां गुणानामभावात् ।। ननु न गुणकृतमेव प्रामाण्यं किन्तु दोषाभावप्रकारेणापि, स च दोषाश्रयपुरुषाभावेऽपि निश्चीयते न गुणसद्भाव एवेति । तथाचोक्तम्-शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः कचित्तावद्गुणवद्वक्तृकत्वतः॥१॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः॥२॥ इति ॥ तदप्ययुक्तम् । पराभिप्रायापरिज्ञानात् ॥ नास्माभिवक्तुरभावे वेदस्य प्रामाण्याभावः समुद्भाव्यते । किं तु तव्याख्यातॄणामतीन्द्रियार्थदर्शनादिगुणाभावे । ततो दोषाणामनपोदितत्वान्न प्रामाण्यानेश्चय इति । ततोऽपौरुषेयत्वेऽपि वेदस्य प्रामाण्यनिश्चयायोगान्नानेन लक्षणस्याव्यापित्वमसम्भावित्वं वेत्यलमतिजल्पितेन ॥ ननु शब्दार्थयोः सम्बन्धाभावादन्यापोहमात्राभिधायित्वादाप्तप्रणीतादपि शब्दात् कथं वस्तुभूतार्थावगम इत्यत्राहसहजयोग्यतासङ्कतवशाद्धि' शब्दादयो वस्तुप्रतिपत्तिहेतवः ॥१०॥
सहजा स्वभावभूता योग्यता शब्दार्थयोर्वाच्यवाचकशक्तिः तस्यां सङ्केतस्तद्वशाद्धि स्फुटं शब्दादयः मागुक्ता वस्तुप्रतिपत्तिहेतव इति ।। उदाहरणमाह
यथा मेर्वादयः सन्ति ॥१०१॥ ननु य एव शब्दाः सत्यर्थे दृष्टास्त एवार्थाभावेऽपि दृश्यन्ते तत्कथमर्थाभिधायकत्वमिति । तदप्ययुक्तम्-अनर्थकेभ्यः शब्देभ्योऽर्थवतामन्यत्वात् ।। न चान्यस्य व्यभिचारेऽन्यस्यासौ युक्तोऽतिप्रसङ्गात् ॥ अन्यथा गोपालघटिकान्तर्गतस्य धूमस्य पावकस्य व्यभिचारे पर्वतादिधूमस्यापि तत्प्रसङ्गात् ।। "यत्नतः परीक्षितं कार्य कारणं नातिवर्तते" इत्यन्यत्रापि समानम् । सुपतितो हि शब्दोऽर्थे न व्यभिचरतीति ॥ तथा चान्यापोहस्य शब्दार्थत्वकल्पनं प्रयासमात्रमेव ॥ न चान्यापोहः शब्दार्थो व्यवतिष्ठते प्रतीतिविरो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org