________________
५०
प्रमेयरत्नमाला
धात् ॥ न हि गवादिशब्दश्रवणादगवादिव्यावृत्तिः प्रतीयते । ततः सास्नादिमत्यर्थे प्रवृत्तिदर्शनादगवादिबुद्धिजनकं तत्र शब्दान्तरं मृग्यम् ॥ अथैकस्मादेव गोशब्दादर्थद्वयस्यापि सम्भावनान्नार्थः शब्दान्तरेणेति चेन्नैवम् । एकस्य परस्परविरुद्धार्थद्वयप्रतिपादनविरोधात् ॥ किश्च गोशब्दस्यागोव्यावृत्तिविषयत्वे प्रथममगौरित प्रतीयेत न चैवमतो नान्यापोहः शब्दार्थः॥ किश्च अपोहाख्यं सामान्यं वाच्यत्वेन प्रतीयमानं पर्युदासरूपं प्रसज्यरूपं वा ? प्रथमपक्षे गोत्वमेव नामान्तरेणोक्तं स्यात् । अभावाभावस्य भाषान्तरस्वभावेन व्यवस्थितत्वात् ।। कश्चायमश्वादिनिवृत्तिलक्षणो भावोऽभिधीयते ? न तावत्स्वलक्षणरूपस्तस्य सकलविकल्पवाग्गोचरातिक्रान्तत्वात्।। नापि शाबलेयादिव्यक्तिरूपस्तस्यासामान्यत्वप्रसङ्गात् ।। तस्मात् सकलगोव्यक्तिष्वनुवृत्तप्रत्ययजनकं तत्रैव प्रत्येक परिसमाप्त्या वर्तमानं सामान्यमेव गोशब्दवाच्यम् । तस्यापोह इति नामकरणे नाममात्र भिघेत नार्थ इति । अतो नाद्यः पक्षः श्रेयान् ॥ नापि द्वितीयो गोशब्दादेः कचिबालेऽर्थे प्रत्ययोगात् । तुच्छाभावाभ्युपगमे परमतप्रवेशानुषंगाच ॥ किश्च गवादयो ये सामान्यशब्दा ये च शावलेयादयस्तेषां भवदभिप्रायेण पर्यायता स्यात् । अर्थभेदाभावावृक्षपादपादिशब्दवत् ॥ न खलु. तुच्छाभावस्य भेदो युक्तो वस्तुन्येव संसृष्टत्वैकत्वनानात्वादिविकल्पानां प्रतीतेः ॥ भेदे वा अभावस्य वस्तुतापत्तिः तल्लक्षणत्वाद्वस्तुत्वस्य ॥ न चापोह्यलक्षणसम्बन्धिभेदानेदः। प्रमेयाभिधेयादिशब्दानामप्रवृत्तिप्रसङ्गात् ॥ व्यवच्छेद्यस्यातद्र पेणाप्यप्रमेयादिरूपत्वे ततो व्यवच्छेदायोगात्कथं तत्र सम्बन्धिभेदानेदः ? किश्च शाबलेयादिष्वेकोऽपोहो न प्रसज्येत किन्तु प्रतिव्यक्ति भिन्न एव स्यात् ॥ अथ शाबलेयादयस्तन्न भिन्दन्ति तवश्वादयोऽपि भेदका माभूवन् । यस्यान्तरङ्गाः शावलेयादयो न भेदकास्तस्याश्वादयो भेदका इत्यतिसाहसम् ॥ वस्तुनोऽपि सम्बन्धिभेदा दो नोपलभ्यते किमुतावस्तुनि ॥ तथाटेक एव देवदत्तादिः कटककुण्डलादिभिरभिसम्बन्ध्यमानो न नानात्वमास्तिघ्नुवानः समुपलभ्यत इति ॥ भवतु वा सम्बन्धिभेदा दस्तशापि न वस्तुभूतसामान्यमन्तरेणान्यापोहाश्रयः सम्बन्धी भवतां भवितुमर्हति । तथाहि यदि शाबलेयादिषु वस्तुभूतसारूप्याभावोऽश्वादिपरिहारेण तत्रैव विशिष्टाभिधानप्रत्ययौ कथं स्याताम् । ततः सम्बन्धिभेदाझेदमिच्छतापि सामान्य वास्त
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org