________________
प्रमेयरत्नमाला वमङ्गीकर्तव्यमिति ॥ किश्चापोहशब्दार्थपचे संकेत एवानुपपन्नस्तद्ग्रहणोपायासम्भवात् ॥ न प्रत्यक्षं तद्ग्रहणसमर्थ तस्य वस्तुविषयत्वात् । अन्यापोहस्य चावस्तुत्वात् ॥ अनुमानमपि न तत्सद्भावमवबोधयति तस्य कार्यस्वभावलिङ्गसम्पाद्यत्वात् ॥ अपोहस्य निरुपाख्येयत्वेनानर्थक्रियाकारित्वेन च स्वभावकार्ययोरसम्भवात् । किञ्च गोशब्दस्यागोपोहाभिधायित्वे गौरित्यत्र गोशब्दस्य किमभिधेयं स्यादज्ञातस्य विधिनिषेधयोरनधिकारात् ।। अगोवृत्तिरिति चेदितरेतराश्रयत्वमगोव्यवच्छेदो हि अगोनिश्चये भवति स चागौर्गोनिवृत्त्यात्मा गौश्चागोव्यवच्छेदरूप इति ॥ अगौरित्यत्रोत्तरपदार्थोऽप्यनयैव दिशा चिन्तनीयः ॥ नन्वगौरित्यत्रान्य एव विधिरूपो गोशब्दाभिधेयस्तदाऽपाहः शब्दार्थ इति विघटेत । तस्मादपोहस्योक्तयुक्त्या विचार्यमाणस्यायोगान्नान्यापोहः शब्दार्थ इति, स्थितं सहजयोग्यतासङ्केतवशाच्छब्दादयो वस्तुमतिपत्तिहेतव इति ॥
स्मृतिरनुपहतेयं प्रत्यभिज्ञानवज्ञा
पमितिनिरतचिन्ता लैङ्गिक सङ्गतार्थम् । प्रवचनमनवचं निश्चितं देववाचा
रचितमुचितवाग्भिस्तथ्यमेतेन गीतम् ॥ १॥ इति परीक्षामुखस्य लघुवृत्तौ परोक्षप्रपञ्चस्तृतीयः समुहशः ॥ ३॥..
अथ स्वरूपसंख्याविप्रतिपत्तिं निराकृत्य विषयविप्रतिपत्तिनिरासाथेमाह
सामान्यविशेषात्मा तदर्थो विषयः॥१॥ तस्य प्रामाण्यस्य ग्राखोऽर्थो विषय इति यावत् । स एव विशिष्यते सामान्यविशेषात्मा । सामान्यविशेषौ वक्ष्यमाणलक्षणौ तावात्मानौ यस्येति विग्रहः॥ तदुभयग्रहणमात्मग्रहणं च केवलस्य सामान्यस्य विशेषस्य तद्भयस्य वा स्वतन्त्रस्य प्रमाणविषयत्वप्रतिषेधार्थम् । तत्र सन्मानदेहस्य परब्रह्मणो निरस्तत्वात्तदितरद्विचार्यते ॥ तत्र सांख्यैः प्रधानं सामान्यमुक्तं "त्रिगुणमविवेकिविषयः सामान्यमचेतनं प्रसवधर्मिव्यक्तं तथा प्रधानं तद्विप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org