Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown
View full book text
________________
मेयरत्नमाला
पौरुषेयत्वमिति तत्र किं शब्दमात्रस्यानादिनित्यत्वमुत विशिष्टानामिति १ आद्यपक्षे य एव शब्दा लौकिकास्त एव वैदिका इत्यल्पमिदमभिधीयते वेद एवापौरुषेय इति । किन्तु सर्वेषामपि शास्त्राणामपौरुषेयतेति ॥ अथ विशिटापूर्विका एव शब्दा अनादित्वेनाभिधीयन्ते तेषामवगतार्थानामनवगतार्थानां वा अनादिता स्यात् ? यदि तावदुत्तरः पक्षस्तदाऽज्ञानलक्षणमप्रामाएयमनुषज्यते ।। अथ आद्यः पक्ष आश्रीयते तद्व्याख्यातारः किञ्चिज्ज्ञाभवेयुः सर्वज्ञा वा ? प्रथमपते दुरधिगमसम्बन्धानामन्यथाप्यर्थस्य कल्पयितुं शक्यत्वात् मिथ्यात्वलक्षणमप्रामाण्यं स्यात् । तदुक्तम् — श्रयमर्थो नायमर्थ इति शब्दा वदन्ति न । कल्य्योऽयमर्थः पुरुषैस्ते च रागादिविप्लुताः ॥ १ ॥ किञ्च किञ्चिज्ज्ञव्याख्यातार्थाविशेषात अग्निहोत्रं जुहुयात् स्वर्गकाम इत्यस्य खादेच्छवमांसमित्यपि वाक्यार्थः किं न स्यात् संशयलक्षणमप्रामाण्यं वा ॥ अथ सर्वविद्विदितार्थ एव वेदोऽऽनादिपरंपराज्यात इति चेत् । हन्त धर्भे चोदनैव प्रमाणमिति हतमेतत् ।। अतीन्द्रियार्थप्रत्यक्षीकरणसमर्थस्य पुरुषस्य सद्भावे च तद्वचनस्यापि चोदनावत्तदवबोधकत्वेन प्रामाण्याद्वेदस्य पुरुषाभावसिद्धेस्तत्प्रतिबन्धकं स्यात् ॥ अथ तद्व्याख्यातृणां किञ्चिज्ज्ञत्वेऽपि यथाव्याख्यानपरम्पराया अनवच्छिन्नसन्तानत्वेन सत्यार्थ एव वेदोऽवसीयत इति चेन्न । किंचिज्ज्ञानामतीन्द्रियार्थेषु निःसंशयव्याख्यानायोगादन्धेनाकृष्यमाणस्यान्धस्यानिष्टदेश परिहारेणाभिमत पथप्रमाणानुपपत्तेः ।। किश्वानादिव्याख्यानपरम्परागतत्वेऽपि वेदार्थस्य गृहीतविस्मृतसम्बन्धवचनाकौशलदुष्टाभिप्रायतया व्याख्यानस्यान्यथैव करणादविसंवादायोगादप्रामाण्यमेव स्यात् । दृश्यन्ते ह्यधुनातना अपि ज्योतिःशास्त्रादिषु रहस्यं यथार्थमवयन्तोऽपि दुरभिसंधेरन्यथा व्याचक्षाणाः । केचिज्जानन्तोऽपि वचनाकौशलादन्यथोपदिशन्तः । केचिद्विस्मृतसम्बन्धा अयाथातथ्यमभिदधाना इति ॥ कथमन्यथा भावनाविधिनियोगवाक्यार्थप्रतिपत्तिर्वेदे स्यान्मनुयाज्ञवल्क्यादीनां श्रुत्यर्थानुसारिस्मृतिनिरूपणायां वा ? तस्मादनादिप्रवाहपतितत्वेऽपि वेदायथार्थत्वमेव स्यादिति स्थितम् ॥ यच्चोकमतीतानागतावित्यादि तदपि स्वमतनिर्मूलन हेतुत्वेन विपरीतसाधनात्तदाभासमेवेनि । तथाहि"अतीतानागतौ कालो वेदार्थज्ञविवर्जितौ । कालशब्दाभिधेयत्वादधुनातनकालवदिति” ।। १ ।। किश्च कालशब्दाभिधेयत्वमतीतानागतयोः काल
Jain Education International
For Personal & Private Use Only
४७
-
www.jainelibrary.org

Page Navigation
1 ... 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362