Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 334
________________ ५० प्रमेयरत्नमाला धात् ॥ न हि गवादिशब्दश्रवणादगवादिव्यावृत्तिः प्रतीयते । ततः सास्नादिमत्यर्थे प्रवृत्तिदर्शनादगवादिबुद्धिजनकं तत्र शब्दान्तरं मृग्यम् ॥ अथैकस्मादेव गोशब्दादर्थद्वयस्यापि सम्भावनान्नार्थः शब्दान्तरेणेति चेन्नैवम् । एकस्य परस्परविरुद्धार्थद्वयप्रतिपादनविरोधात् ॥ किश्च गोशब्दस्यागोव्यावृत्तिविषयत्वे प्रथममगौरित प्रतीयेत न चैवमतो नान्यापोहः शब्दार्थः॥ किश्च अपोहाख्यं सामान्यं वाच्यत्वेन प्रतीयमानं पर्युदासरूपं प्रसज्यरूपं वा ? प्रथमपक्षे गोत्वमेव नामान्तरेणोक्तं स्यात् । अभावाभावस्य भाषान्तरस्वभावेन व्यवस्थितत्वात् ।। कश्चायमश्वादिनिवृत्तिलक्षणो भावोऽभिधीयते ? न तावत्स्वलक्षणरूपस्तस्य सकलविकल्पवाग्गोचरातिक्रान्तत्वात्।। नापि शाबलेयादिव्यक्तिरूपस्तस्यासामान्यत्वप्रसङ्गात् ।। तस्मात् सकलगोव्यक्तिष्वनुवृत्तप्रत्ययजनकं तत्रैव प्रत्येक परिसमाप्त्या वर्तमानं सामान्यमेव गोशब्दवाच्यम् । तस्यापोह इति नामकरणे नाममात्र भिघेत नार्थ इति । अतो नाद्यः पक्षः श्रेयान् ॥ नापि द्वितीयो गोशब्दादेः कचिबालेऽर्थे प्रत्ययोगात् । तुच्छाभावाभ्युपगमे परमतप्रवेशानुषंगाच ॥ किश्च गवादयो ये सामान्यशब्दा ये च शावलेयादयस्तेषां भवदभिप्रायेण पर्यायता स्यात् । अर्थभेदाभावावृक्षपादपादिशब्दवत् ॥ न खलु. तुच्छाभावस्य भेदो युक्तो वस्तुन्येव संसृष्टत्वैकत्वनानात्वादिविकल्पानां प्रतीतेः ॥ भेदे वा अभावस्य वस्तुतापत्तिः तल्लक्षणत्वाद्वस्तुत्वस्य ॥ न चापोह्यलक्षणसम्बन्धिभेदानेदः। प्रमेयाभिधेयादिशब्दानामप्रवृत्तिप्रसङ्गात् ॥ व्यवच्छेद्यस्यातद्र पेणाप्यप्रमेयादिरूपत्वे ततो व्यवच्छेदायोगात्कथं तत्र सम्बन्धिभेदानेदः ? किश्च शाबलेयादिष्वेकोऽपोहो न प्रसज्येत किन्तु प्रतिव्यक्ति भिन्न एव स्यात् ॥ अथ शाबलेयादयस्तन्न भिन्दन्ति तवश्वादयोऽपि भेदका माभूवन् । यस्यान्तरङ्गाः शावलेयादयो न भेदकास्तस्याश्वादयो भेदका इत्यतिसाहसम् ॥ वस्तुनोऽपि सम्बन्धिभेदा दो नोपलभ्यते किमुतावस्तुनि ॥ तथाटेक एव देवदत्तादिः कटककुण्डलादिभिरभिसम्बन्ध्यमानो न नानात्वमास्तिघ्नुवानः समुपलभ्यत इति ॥ भवतु वा सम्बन्धिभेदा दस्तशापि न वस्तुभूतसामान्यमन्तरेणान्यापोहाश्रयः सम्बन्धी भवतां भवितुमर्हति । तथाहि यदि शाबलेयादिषु वस्तुभूतसारूप्याभावोऽश्वादिपरिहारेण तत्रैव विशिष्टाभिधानप्रत्ययौ कथं स्याताम् । ततः सम्बन्धिभेदाझेदमिच्छतापि सामान्य वास्त Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362