Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 330
________________ ४६ प्रमेयरत्नमाला मात्मकस्यानेकत्वात् । नापि पर्वताद्यनेकप्रदेशस्थतया युगपदनेकदेशस्थित पुरुषपरिदृश्यमानेन चन्द्रार्कादिना व्यभिचारः । तस्यातिदविष्ठतयैकदेशस्थितस्यापि भ्रान्तिवशादनेकदेशस्थत्वेन प्रतीतेः । न चाभ्रान्तस्य भ्रान्तेन व्यभिचारकल्पना युक्तेति । नापि जलपात्रप्रतिबिम्बेन । तस्यापि चन्द्रार्कादिसन्निधिमपेक्ष्य तथापरिणममानस्यानेकत्वात् । तस्मादनेकप्रदेशे युगपत्सर्वात्मनोपलभ्यमानविषयस्यैकस्यासम्भाव्यमानत्वात्तत्र प्रवर्त्तमानं प्रत्यभिज्ञानं न प्रमाणमिति स्थितम् ॥ तथा नित्यत्वमपि न प्रत्यभिज्ञानेन निश्चीयत इति । नित्यत्वं हि एकस्यानेकक्षणव्यापित्वम् । तच्चान्तराले सत्तानुपलम्भेन न शक्यते निश्चेतुम् । न च प्रत्यभिज्ञानबलेनैवान्तराले सत्तासम्भवः । तस्य सादृश्यादपि सम्भवाविरोधात् । न च घटादावप्येवं प्रसङ्गः । तस्योत्पत्तावपरापरमृत्पिण्डान्तरलक्षणस्य कारणस्यासम्भाव्यमानत्वेनान्तराले सत्तायाः साधयितुं शक्यत्वात् । अत्र तु कारणानामपूर्वाणां व्यापारसम्भावनातो नान्तराले सत्तासम्भव इति ॥ यच्चान्यदुक्तं संकेतान्यथानुपपत्तेः शब्दस्य नित्यत्वमिति । इदमप्यनात्मज्ञभाषितमेव । अनित्येऽपि योजयितुं शक्यत्वात् । तथा हि गृहीतसंकेतस्य दण्डस्य प्रध्वंसे सत्यगृहीतसंकेत इदानीमन्य एव दण्डः समुपलभ्यत इति दण्डीति न स्यात् । तथा धूमस्यापि गृहीतव्याप्तिकस्य नाशे अन्यधूमदर्शनाद्वह्निविज्ञानाभावश्च ।। अथ सादृश्यात्तथाप्रतीतेर्न दोष इति चेदत्रापि सादृश्यवशादर्थ - प्रत्यये को दोषः ? । येन नित्यत्वेऽत्र दुरभिनिवेश श्रीयते । तथा कल्पनायामन्तराले सत्त्वमप्यदृष्टं, न कल्पितं स्यादिति । यच्चान्यदभिहितं व्यञ्जकानां प्रतिनियतत्वान्न युगपत् श्रुतिरिति तदप्यशिक्षितलक्षितम् समानोन्द्रयग्राह्येषु समानधर्मसु समानदेशेषु विषयिविषयेषु नियमायोगात् ।। तथाहि श्रोत्रं समानदेशसमानेन्द्रियग्राद्य समानधर्मापचानामर्थानां ग्रहरणाय प्रतिनियतसंस्कारक संस्कार्यं न भवति । इन्द्रियत्वात् चक्षुर्वत् ॥ शब्दा वा प्रतिनियतसंस्कारक संस्कार्या न भवन्ति । समानदेश समानेन्द्रियग्राह्यसमानधर्मापन्नत्वे सति युगपदिन्द्रियसम्बद्धत्वात् । घटादिवत् ॥ उपपत्तिपत्रे - scrयं दोषः समान इति न वाच्यं मृत्पिण्डदीपदृष्टान्ताभ्यां कारकव्यञ्जकपक्ष योर्विशेषसिद्धेरित्यलमतिजल्पितेन ।। यच्चान्यत्प्रवाहनित्यत्वेन वेदस्या१ उत्पत्तिपचे, इत्यपि पाठभेदः ॥ Jain Education International For Personal & Private Use Only - www.jainelibrary.org

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362