________________
४६
प्रमेयरत्नमाला
मात्मकस्यानेकत्वात् । नापि पर्वताद्यनेकप्रदेशस्थतया युगपदनेकदेशस्थित पुरुषपरिदृश्यमानेन चन्द्रार्कादिना व्यभिचारः । तस्यातिदविष्ठतयैकदेशस्थितस्यापि भ्रान्तिवशादनेकदेशस्थत्वेन प्रतीतेः । न चाभ्रान्तस्य भ्रान्तेन व्यभिचारकल्पना युक्तेति । नापि जलपात्रप्रतिबिम्बेन । तस्यापि चन्द्रार्कादिसन्निधिमपेक्ष्य तथापरिणममानस्यानेकत्वात् । तस्मादनेकप्रदेशे युगपत्सर्वात्मनोपलभ्यमानविषयस्यैकस्यासम्भाव्यमानत्वात्तत्र प्रवर्त्तमानं प्रत्यभिज्ञानं न प्रमाणमिति स्थितम् ॥ तथा नित्यत्वमपि न प्रत्यभिज्ञानेन निश्चीयत इति । नित्यत्वं हि एकस्यानेकक्षणव्यापित्वम् । तच्चान्तराले सत्तानुपलम्भेन न शक्यते निश्चेतुम् । न च प्रत्यभिज्ञानबलेनैवान्तराले सत्तासम्भवः । तस्य सादृश्यादपि सम्भवाविरोधात् । न च घटादावप्येवं प्रसङ्गः । तस्योत्पत्तावपरापरमृत्पिण्डान्तरलक्षणस्य कारणस्यासम्भाव्यमानत्वेनान्तराले सत्तायाः साधयितुं शक्यत्वात् । अत्र तु कारणानामपूर्वाणां व्यापारसम्भावनातो नान्तराले सत्तासम्भव इति ॥ यच्चान्यदुक्तं संकेतान्यथानुपपत्तेः शब्दस्य नित्यत्वमिति । इदमप्यनात्मज्ञभाषितमेव । अनित्येऽपि योजयितुं शक्यत्वात् । तथा हि गृहीतसंकेतस्य दण्डस्य प्रध्वंसे सत्यगृहीतसंकेत इदानीमन्य एव दण्डः समुपलभ्यत इति दण्डीति न स्यात् । तथा धूमस्यापि गृहीतव्याप्तिकस्य नाशे अन्यधूमदर्शनाद्वह्निविज्ञानाभावश्च ।। अथ सादृश्यात्तथाप्रतीतेर्न दोष इति चेदत्रापि सादृश्यवशादर्थ - प्रत्यये को दोषः ? । येन नित्यत्वेऽत्र दुरभिनिवेश श्रीयते । तथा कल्पनायामन्तराले सत्त्वमप्यदृष्टं, न कल्पितं स्यादिति । यच्चान्यदभिहितं व्यञ्जकानां प्रतिनियतत्वान्न युगपत् श्रुतिरिति तदप्यशिक्षितलक्षितम् समानोन्द्रयग्राह्येषु समानधर्मसु समानदेशेषु विषयिविषयेषु नियमायोगात् ।। तथाहि श्रोत्रं समानदेशसमानेन्द्रियग्राद्य समानधर्मापचानामर्थानां ग्रहरणाय प्रतिनियतसंस्कारक संस्कार्यं न भवति । इन्द्रियत्वात् चक्षुर्वत् ॥ शब्दा वा प्रतिनियतसंस्कारक संस्कार्या न भवन्ति । समानदेश समानेन्द्रियग्राह्यसमानधर्मापन्नत्वे सति युगपदिन्द्रियसम्बद्धत्वात् । घटादिवत् ॥ उपपत्तिपत्रे - scrयं दोषः समान इति न वाच्यं मृत्पिण्डदीपदृष्टान्ताभ्यां कारकव्यञ्जकपक्ष योर्विशेषसिद्धेरित्यलमतिजल्पितेन ।। यच्चान्यत्प्रवाहनित्यत्वेन वेदस्या१ उत्पत्तिपचे, इत्यपि पाठभेदः ॥
Jain Education International
For Personal & Private Use Only
-
www.jainelibrary.org