________________
मेयरत्नमाला
कालयोस्तदनुमापकस्य लिङ्गस्याभावात्तदभावोऽपि सर्वदाप्यतीन्द्रियसाध्यसाधन सम्बन्धस्येन्द्रियग्राह्यत्वायोगात् ॥ प्रत्यक्षप्रतिपन्नमेव हि लिङ्गम् । अनुमानं हि गृहीतसम्बन्धस्यैकदेशसन्दर्शनाद सन्निकृष्टेऽर्थे बुद्धिरित्यभिधानात् || नाप्यर्थापत्तस्तत्सिद्धिः । अन्यथाभूतस्यार्थस्याभावादुपमानोपमेययोरप्रत्यक्षत्वाच्च नाप्युपमानं साधकम् || केवलमभावप्रमाणमेवावशिष्यते तच्च तदभावसाधकमिति । न च पुरुषसद्भाववदस्यापि दुःसाध्यत्वात्संशयापत्तिस्तदभावसाधकप्रमाणानां सुलभत्वात् || अधुना हि तदभावप्रत्यक्षमेवातीतानागतयोः कालयोरनुमानं तदभावसाधकमिति । तथा च - श्रतीतानागतौ कालौ वेदकारविवर्जितौ । कालशब्दाभिधेयत्वादिदानीन्तन कालवत् ।। १ ।। वेदस्याध्ययनं सर्वं तदध्ययनपूर्वकम् | वेदाध्ययनवाच्यत्वादधुनाध्ययनं तथेति ॥ २ ॥ तथा अपौरुषेयो वेदः अनवच्छिन्नसम्प्रदायत्वे सत्यस्मर्यमारणकर्तृकत्वादाकाशवत् ॥ अर्थापत्तिरपि प्रामाण्यलक्षणस्यार्थस्यानन्यथाभूतस्य दर्शनात्तदभावे निश्चीयते || धर्माद्यतीन्द्रियार्थविषयस्य वेदस्यावग्दर्शिभिः कर्तुमशक्यत्वात् । प्रतीन्द्रियार्थदर्शिनश्चाभावात्मामाण्यमपौरुषेयतामेव कल्पयतीति ।। अत्र प्रतिविधीयते — यत्तावदुक्तं वर्णानां व्यापित्वे नित्यत्वे च प्रत्यभिज्ञाप्रमाणमिति, तदसत् । प्रत्यभिज्ञायास्तत्र प्रमाणत्वायोगात् || देशान्तरेऽपि तस्यैव वर्णस्य सत्त्वे खण्डशः प्रतिपत्तिः स्यात् । नहि सर्वत्र व्याप्त्या वर्तमानस्यैकस्मिन्प्रदेशे सामस्त्येन ग्रहणमुपपत्तियुक्तम् । अव्यापकत्वप्रसङ्गात् ।। घटादेरपि व्यापकत्वप्रसङ्गः । शक्यं हि वक्तुमेवं घटः सर्वगतश्चचुरादिसन्निधानादनेकत्र देशे प्रतीयत इति ॥ ननु घटोत्पादकस्य मृत्पि एडादेरनेकस्योपलम्भादनेकत्वमेव । तथा महदणुपरिमाणसम्भवाच्चेति || तच्च वर्णेष्वपि समानम् । तत्रापि प्रतिनियतताल्वादिकारणकलापस्य तीव्रादिधर्मभेदस्य च सम्भवाविरोधात् । तात्वादीनां व्यञ्जकत्वमत्रैव निषेत्स्यत इत्यास्तां तावदेतत् ।। अथ व्याप्तित्वेऽपि सर्वत्र सर्वात्मना वृत्तिमत्वान दोषोऽयमिति चेन्न । तथा सति सर्वथैकत्वविरोधात् । नहि देशभेदेन युगपत्सर्वात्मना प्रतीयमानस्यैकत्वमुपपन्नं प्रमाणविरोधात् । तथा च प्रयोगःप्रत्येकं गकारादिवर्णोऽनेक एव युगपद्भिन्नदेशतया तथैव सर्वात्मनोपलभ्यमानत्वात् घटादिवत् ॥ न सामान्येन व्यभिचारः । तस्यापि सदृशपरिणा
Jain Education International
For Personal & Private Use Only
४५
-
www.jainelibrary.org