________________
प्रमेयरत्नमाला प्राप्तवचनादिनिबन्धनमर्थज्ञानमागमः ॥ ६ ॥ यो यत्रावञ्चकः स तत्राप्तः । आप्तस्य वचनम् । आदिशब्देनांगुल्यादिसंज्ञापरिग्रहः । आप्तवचनमादिर्यस्य तत्तथोक्तं तन्निबन्धनं यस्यार्थज्ञानस्येति ॥ आप्तशब्दोपादानादपौरुषेयत्वव्यवच्छेदः। अर्थज्ञानमित्यनेनान्याप्तेहज्ञानस्याभिप्रायसुचनस्य च निरासः ॥ नन्वसम्भवीदं लक्षण, शब्दस्य नित्यत्वेनापौरुषेयत्वादाप्तपणीतत्वायोगात् । तनित्यत्वं च तदवयवानां वर्णानां व्यापकत्वान्नित्यत्वाच ॥ न च तद्वयापकत्वमसिद्धम् । एकत्र प्रयुक्तस्य गकारादेः प्रत्यभिज्ञया देशान्तरेऽपि ग्रहणात् ॥ स एवायं गकार इति नित्यत्वमपि तयैवावसीयते । कालान्तरेऽपि तस्यैवं गकारादेनिश्चयात् ॥ इतो वा नित्यत्वं शब्दस्य सङ्केतान्यथानुपपत्तेरिति । तथाहि गृहीतसङ्केतस्य शब्दस्य प्रध्वंसे सत्यगृहीतसंकेतः शब्द इदानीमन्य एवोपलभ्यते इति तत्कथमर्थप्रत्ययः स्यात् ? न चासौ न भवतीति स एवायं शब्द इति प्रत्यभिज्ञानस्यात्रापि सुलभत्वाच्च ॥ न च वर्णानां शब्दस्य वा नित्यत्वे सर्वैः सर्वदा श्रवणप्रसङ्गः । सर्वदा तदभिव्यक्तरसम्भवात् । तदसम्भवश्चाभिव्यञ्जकवायूनां प्रतिनियतत्वात् ॥ न च तेषामनुपपन्नत्वम् । प्रमाणपतिपत्नत्वात् ॥ तथाहि-वक्तृमुखनिकटदेशवर्तिभिः स्पर्शनेनाध्यक्षेण व्यञ्जका वायवो गृह्यन्ते । दूरदेशस्थितेन मुखसमीपस्थिततूलचलनादनुमीयन्ते । श्रोतृश्रोत्रदेशे शब्दश्रवणान्यथानुपपत्तेरापत्यापि निश्चीयन्ते ॥ किञ्चोत्पत्तिपक्षेऽपि समानाऽयं दोषः । तथाहि वाय्वाकाशसंयोगादसमवायिकारणादाकाशाच्च समवायिकारणादिग्देशाघविभागेनोत्पद्यमानोऽयं शब्दो न सर्वैरनुभूयते । अपि तु नियतदिग्देशस्थैवे तथाऽभिव्यज्यमानोऽपि ॥ नाप्यभिव्यक्तिसांकर्यमुभयत्रापि समानत्वादेव । तथाहि-अन्यैस्ताल्वादिसंयोगैर्यथान्यो वर्णो न क्रियते तथा ध्वन्यन्तरसारिभिस्तावादिभिरन्यो ध्वनि रभ्यते इत्युत्पत्त्यभिव्यक्त्योः समानत्वनैकत्रैव पर्यनुयोगावसर इति सर्व मुस्थम् ॥ मामूद्वर्णानां तदात्मकस्य वा शब्दस्य कौटस्थानित्यत्वम् । तथाप्यनादिपरम्परायातत्वेन वेदस्य नित्यत्वात्मकृतलक्षणस्याव्यापकत्वम् ॥ न च प्रवाहनित्यत्वमप्रमाणकमेवास्येति युक्तं वक्तुम् ॥ अधुना तत्कर्तुरनुपलम्भादतीतानागतयोरपि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org