SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ मेयरत्नमाला व्युत्पन्नप्रयोगस्तु तथोपपत्त्याऽन्यथानुपपत्त्यैव वा ॥ १४ ॥ व्युत्पन्नस्य व्युत्पन्नाय वा प्रयोगः क्रियते इति शेषः । तथोपपत्या तथा साध्ये सत्येवोपपत्तिस्तया अन्यथानुपपत्त्यैव वा अन्यथा साध्याभावे - Sनुपपत्तिस्तया । तामेवानुमानमुद्रामुन्मुद्रयति श्रग्निमानयं देशस्तथैव धूमवत्वोपपत्ते ममत्वान्यथानुपपत्तेर्वेति ॥ ६५ ॥ ननु तदतिरिक्तदृष्टान्तादेरपि व्याप्तिप्रतिपत्तावुपयोगित्वात् । व्युत्पन्ना - पेक्षया कथं तदप्रयोग इत्याह हेतुप्रयोगा हि यथाव्याप्तिग्रहणं विधीयते सा च तावन्मात्रेण व्युत्पन्नैरवधार्यत इति ॥ ६६॥ ४ ३ हिशब्दो यस्मादर्थे, यस्माद्यथाव्याप्तिग्रहणं व्याप्तिग्रहणानतिक्रमेणैव हेतुप्रयोगो विधीयते । सा च तावन्मात्रेण व्युत्पन्नैस्तथोपपत्त्याऽन्यथानुपपया वाऽवधार्यते दृष्टान्तादिकमन्तरेणैवेत्यर्थः ॥ यथा दृष्टान्तादेर्व्याप्तिप्रतिपत्तिम्प्रत्यनङ्गत्वं तथा प्राक् प्रपञ्चितमिति नेह पुनः प्रतन्यते ॥ नापि दृष्टान्तादिप्रयोगः साध्यसिद्धयर्थं फलवानित्याह तावता च साध्यसिद्धिः ॥ ६७ ॥ चकार एवकारार्थे । निश्चितविपक्षासम्भवहेतुप्रयोगमात्रेणैव साध्यसिद्धिरित्यर्थः । तेन पक्षप्रयोगोऽपि सफल इति दर्शयन्नाह - तेन पक्षस्तदाधारसूचनायोक्तः ॥ ६८ ॥ यतस्तथोपपत्त्यन्यथानुपपत्तिप्रयोगमात्रेरेण व्याप्तिप्रतिपत्तिस्तेन हेतुना पक्षस्तदाधारसूचनाय साध्यव्याप्त साधनाधारसूचनायोक्तः । ततो यदुक्कं परेण सद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः ॥ ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥ १ ॥ इति तन्निरस्तम् ॥ व्युत्पन्नं प्रति यथोक्तहेतुप्रयोगोsपि पक्षप्रयोगाभावे साधनस्य नियताधारतानवधारणात् ॥ अथानुमा नस्वरूपं प्रतिपाद्येदानीं क्रमप्राप्तमागमस्वरूपं निरूपयितुमाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004085
Book TitleParikshamukham
Original Sutra AuthorN/A
AuthorSaratchandra Ghoshal
PublisherZZZ Unknown
Publication Year1940
Total Pages362
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy