________________
मेयरत्नमाला
यथाऽस्मिन्प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेरिति ॥ ८७ ॥
व्याधिविशेषस्य हि विरुद्धस्तद्भावस्तस्य कार्य निरामयचेष्टा तस्या अनुपलब्धिरिति ॥ विरुद्धकारणानुपलब्धिमाह -
श्रस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ॥ ८८ ॥ दुःखविरोधि सुखं, तस्य कारणमिष्टसंयोगस्तदनुपलब्धिरिति ॥ विरुद्धस्वभावानुपलब्धिमाह
४२
अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥ ८६ ॥ अनेकान्तात्मकविरोधी नित्याद्येकान्तः । न पुनस्तद्विषयविज्ञानम् । तस्य मिथ्याज्ञानरूपतयोपलम्भसम्भवात् । तस्य स्वरूपं वास्तवाकारस्तस्यानुपलब्धिः । ननु च व्यापकविरुद्धकार्यादीनां परम्परया विरोधिकार्यादिलिङ्गानां च बहुलमुपलम्भसम्भवात्तान्यपि किमिति नाचार्यैरुदाहृतानी
त्याशङ्कायामाह —
परम्परया सम्भवत्साधनमत्रैवान्तर्भावनीयम् ॥ ६०॥ तेषु कार्यादिष्वित्यर्थः । तस्यैव साधनस्योपलक्षणार्थमुदाहरणद्वयं प्रदर्शयति-
भूद चक्रे शिवकः स्थासात् ॥ ६१ ॥
एतच्च किं संज्ञिकं कान्तर्भवतीत्यारे कायामाह - कार्यकार्यमविरुद्ध कार्योपलब्धौ ॥ ६२ ॥ अन्तर्भावनीयमिति सम्बन्धः । शिवकस्य हि कार्य छत्रकं, तस्य कार्य स्थास इति । दृष्टान्तद्वारेण द्वितीयहेतुमुदाहरति
नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् । कारणविरुद्धार्यं विरुद्धका 'पलब्धौ यथेति ॥ ६३ ॥
मृगस्य हि कारणं मृगस्तस्य विरोधी मृगारिस्तस्य कार्य तच्छबदनमिति । इदं यथा विरुद्ध कार्योपलब्धावन्तर्भवति तथा प्रकृतमपीत्यर्थः । । बालव्युत्पत्यर्थं पञ्चावयवमयोग इत्युक्तं व्युत्पन्नं प्रति कथं प्रयोगनियम इति
शङ्कायामाह -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org