________________
प्रमेयरत्नमाला अविरुद्धानुपलब्धिःप्रतिषेधे सप्तधा स्वभावव्यापककार्यकारण
पूर्वोत्तरसहचरानुपलम्भभेदादिति ॥ ७८ ॥ स्वभावादिपदानां द्वन्द्वः तेषामनुपलम्भ इति पश्चाच्छष्ठीतत्पुरुषः समासः॥ स्वभावानुपलम्भोदाहरणमाह
नास्त्यत्र भूतले घटोऽनुपलब्धेः॥ ७९ ॥ अत्र पिशाचपरमावादिभिर्व्यभिचारपरिहारार्थमुपलब्धिलक्षणप्राप्तत्वे सतीति विशेषणमुन्नेयम् ॥ व्यापकानुपलब्धिमाह
नास्त्यत्र शिशपा वृक्षानुपलब्धेः॥८० ॥ शिंशपात्वं हि वृक्षत्वेन व्याप्तम् । तदभावे तद्व्याप्यशिंशपाया अप्यभावः । कार्यानुपलब्धिमाह
नास्त्यत्राप्रतिबद्धसामथ्यो ऽग्नि मानुपलब्धेः ॥८१॥ अप्रतिबद्धसामर्थ्य हि कार्य प्रत्यनुपहतशक्तिकत्वमुच्यते । तदभावश्च कार्यानुपलम्भादिति ॥ कारणानुपलब्धिमाह
नास्त्यत्र धूमोऽनग्नेः ॥८२॥ पूर्वचरानुपलब्धिमाह
न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदयानुपलब्धेः॥ ८३ ॥ उत्तरचरानुपलब्धिमाह
.. नोदगाद्भरणिमुहूर्तात्प्राक्तत एव ॥८४ ॥ तत एव कृत्तिकोदयानुपलब्धेरेवेत्यर्थः ॥ सहचरानुपलब्धिः प्राप्तकालेत्याह
नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः ॥८५ ॥ विरुद्धकार्याद्यनुपलब्धिार्वधौ सम्भवतीत्याचक्षाणस्तद्भेदात्रय एवेति तानेव प्रदर्शयितुमाहविरुद्धानुपलब्धिविधौ त्रेधा । विरुद्धकार्यकारणस्वभावा
नुपलब्धिभेदात् ॥ ८६ ॥ विरुद्धकार्याद्यनुपलब्धिर्विधौ सम्भवतीति विरुद्धकार्यकारणस्वभावा. नुपलब्धिरिति ॥ तत्र विरुद्धकार्यानुपलब्धिमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org