________________
प्रमेयरत्नमाला
उदगारणिः प्राक्तत एव ॥ ६६ ॥
अत्रापि मुहूर्तात्प्रागिति सम्बन्धनीयं तत एव कृत्तिकोदयादेवेत्यर्थः ॥ सहचर लिङ्गमाह -
श्रस्त्यत्र मातुलिङ्ग रूपं रसात् ॥ ७० ॥
४०
विरुद्धोपलब्धिमाह -
विरुद्धतदुपलब्धिः प्रतिषेधे तथेति ॥ ७१ ॥
प्रतिषेधे साध्येऽप्रतिषेध्येन विरुद्धानां सम्बन्धिनस्ते व्याप्यादयस्ते - षामुपलब्धय इत्यर्थः । तथेति षोढेति भावः ॥ तत्र साध्यविरुद्धव्याप्यो - पलब्धिमाह
नास्त्यत्र शीतस्पर्श श्रष्ण्यात् ॥ ७२ ॥
शीतस्पर्शप्रतिषेधेन हि विरुद्धोऽग्निस्तद्वयाप्यमौष्ण्यमिति ॥ विरुद्धकार्योपलम्भमाह
नास्त्यत्र शीतस्पर्शे धूमात् ॥ ७३ ॥
अत्रापि प्रतिषेध्यस्य साध्यस्य शीतस्पर्शस्य विरुद्धोऽग्निस्तस्य कार्य धूम इति ॥ विरुद्धकारणोपलब्धिमाह
नास्मिन् शरीरिणि सुखमस्ति हृदयशल्यात् ॥ ७४ ॥ सुखविरोधि दुःखं, तस्य कारणं हृदयशल्यमिति ॥ विरुद्धपूर्वचरमाहनोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ॥ ७५ ॥ शकटोदयविरुद्धो ह्यश्विन्युदयस्तत्पूर्वचरो खेत्युदय इति ॥ विरुद्धो - त्तरचरं लिङ्गमाह
मुहूर्तात्पूर्वं पुष्योदयात् ॥ ७६ ॥
भरण्युदयविरुद्धो हि पुनर्वसूदयस्तदुत्तरचरः पुष्योदय इति ॥ विरुद्ध
सहचरमाह
नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भागदर्शनादिति ॥ ७७ ॥
परभागाभावस्य विरुद्धस्तद्भावस्तत्सहचरोऽर्वाग्भाग इति ॥ अविरुद्धा
नुपलब्धिभेदमाह–
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org