________________
मेयरत्नमाला
तद्भावभावित्वं तच्च तद्वयापाराश्रितं तस्मान प्रकृतयोः कार्यकारणभाव इत्यर्थः ॥ अयमर्थ:- अन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ च कार्यम्प्रति कारणव्यापारसव्यपेक्षा वेवोपपद्येते कुलालस्येव कलशम्प्रति । न चातिव्यवहितेषु तद्व्यापाराश्रितत्वमिति ॥ सहचरस्याप्युकहेतुष्वनन्तर्भावं दर्शयति
1
सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच्च ॥ ६४ ॥
हेत्वन्तरत्वमिति शेषः । अयमभिप्रायः परस्परपरिहारेणोपालम्भात्तादात्म्यासम्भवात्स्वभावहेतावनन्तर्भावः । सहोत्पादाच्च न कार्ये कारणे वेति ।। न च समानसमयवर्तिनोः कार्यकारणभावः सव्येतरगोविषाणवत् । कार्यकारणयोः प्रतिनियमाभावप्रसङ्गाच्च । तस्माद्धेत्वन्तरत्वमेवेति ॥ इदानीं व्याप्यहेतुं क्रमप्राप्तमुदाहरन्नुक्तान्वयव्यतिरेकेपुरस्सरं प्रतिपाद्याशयवशात्मतिपादितप्रतिज्ञाद्यवयवपञ्चकं प्रदर्शयति
परिणामी शब्दः कृतकत्वात् । य एवं स एवं दृष्टो, यथा घटः, कृतश्चायं तस्मात्परिणामीति, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः,
कृतकश्चायं तस्मात्परिणामीति ॥ ६५ ॥
स्वोत्पत्तौ अपेक्षितव्यापारो हि भावः कृतक उच्यते । तच्च कृतकत्वं न कूटस्थ नित्यपक्षे नापि क्षणिकपक्षे किन्तु परिणामित्वे सत्येवेत्यग्रे वक्ष्यसे ॥ कार्यहेतुमाह—
अस्त्यत्र देहिनि बुद्धिर्व्याहारादेः ॥ ६६ ॥
कारणहेतुमाह
अस्त्यत्र च्छाया छत्रात् ॥ ६७ ॥
अथ पूर्वचरहेतुमाह
Jain Education International
उदेष्यति शकटं कृत्तिकोदयात् ॥ ६८ ॥
मुहूर्तान्ते इति सम्बन्धः ॥ अथोत्तरचरः
३६.
--
For Personal & Private Use Only
www.jainelibrary.org