________________
३८
प्रमेयरत्नमाला रसादेकसामग्यनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारस
हेतुयंत्रसामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये ॥ ६ ॥ आस्वाद्यमानाद्धि रसात्तज्जानका सामग्रयनुमीयते । ततो रूपानुमानं भवति । प्राक्तनो हि रूपक्षणः सजातीयं रूपक्षणान्तरलक्षणं कार्य कुर्वनेव विजातीयं रसलक्षणं कार्य करोतीति रूपानुमानमिच्छद्भिरिष्टमेव किश्चिकारणं हेतुः प्राक्तनस्य रूपलक्षणस्य सजातीयरूपक्षणान्तराव्यभिचारात् । अन्यथा रससमानकालरूपमतिपत्तेरयोगात् ॥ नह्यनुकूलमात्रमन्त्यक्षणमाप्त वा कारणं लिङ्गमिष्यते । येन मणिमन्त्रादिना सामथ्र्यप्रतिबन्धात्कारणान्तरवैकल्येन वा कार्यव्यभिचारित्वं स्यात् ॥ द्वितीयक्षणे कार्यप्रत्यक्षीकरणेनाऽनुमानानर्थक्यं वा । कार्याविनाभावितया निश्चितस्य विशिष्टकारणस्य छत्रादेर्लिङ्गत्वेनाङ्गीकरणात् ॥ यत्र सामर्थ्याप्रतिवन्धः कारणान्तरावैकल्यं निश्चीयते तस्यैव लिङ्गत्वं नान्यस्येति नोक्तदोषप्रसङ्गः ॥ इदानीं पूर्वोत्तरचरयोः स्वभावकार्यकरणेष्वनन्तर्भावाद्भेदान्तरत्वमेवेति दर्शयति--
न च पूर्वोत्तरचारिणोस्तादात्म्यं तदुत्पत्तिर्वा काल
व्यवधाने तदनुपलब्धेरिति ॥ ६१ ॥ तादात्म्यसम्बन्धे साध्यसाधनयोः स्वभावहेतावन्तर्भावः, तदुत्पत्तिसम्बन्धे च कार्ये कारणे वान्तर्भावो विभाव्यते । न च तदुभयसम्भवः कालव्यवधाने तदनुपलब्धः। सहभाविनोरेव तादात्म्यसम्भवादनन्तरयोरेव पूर्वोत्तरक्षणयोर्हेतुफलभावस्य दृष्टत्वात् । व्यवहितयोस्तदघटनात् ॥ ननु कालव्यवधानेऽपि कार्यकारणभावो दृश्यत एव । यथा जाग्रत्मबुद्धदशाभाविप्रबोधयोमरणारिष्टयोर्वेति ॥ तत्परिहारार्थमाह
भाव्यतीतयोमरणजाग्रद्बोधयोरपि नारि
ष्टोद्रोधौ प्रति हेतुत्वम् ॥ ६२॥ सुगममेतत् । अत्रैवोपपत्तिमाह
तद्व्यापाराश्रितं हि तद्भावभावित्वम् ॥ ६३ ॥ हिशब्दो यस्मादर्थे । यस्मात्तस्य कारणस्य भावे कार्यस्य भावित्वं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org