________________
प्रमेयरत्नमाला तुस्तस्य भावस्तत्त्वम् । तस्मानिमित्तात्तद्वचनमपि परार्थानुमानप्रतिपादकवचनमपि परार्थानुमानमिति सम्बन्धः । कारणे कार्यस्योपचारात् ॥ अथवा तत्सतिपादकानुमानं हेतुर्यस्य तत्तद्धेतुस्तस्य भावस्तत्त्वं ततस्तद्वचनमपि तथेति सम्बन्धः॥ अस्मिन्पो कार्ये कारणस्योपचार इति शेषः॥ वचनस्यानुमानत्वे च प्रयोजनमनुमानावयवाः प्रतिज्ञादय इति शास्त्रे व्यवहार एव ॥ ज्ञानात्मन्यनंशे तद्वत्यवहारस्याशक्यकल्पनत्वात् ॥ तदेवं साधनात् साध्यविज्ञानमनुमानमित्यनुमानसामान्यलक्षणम् ॥ तदनुमानंद्वेधेत्यादिना तत्पकारं च सप्रपश्चमभिधाय साधनमुक्तलक्षणापेक्षयकमप्यातिसंक्षेपेण भिद्यमानं द्विविधमित्युपदर्शयति
स हेतुढेधोपलब्ध्यनुपलब्धिभेदादिति ॥ ५७ ॥ सुगममेतत् ॥ तत्रोपलब्धिर्विधिसाधिकैव । अनुपलब्धिः प्रतिषेधसाधिकैवेति ॥ परस्य नियमं विघटयन्नुपलब्धेरनुपलब्धेश्चाविशेषेण विधिपतिषेधसाधनत्वमाह... उपलब्धिर्विधिप्रतिषेधयोरनुपलब्धिश्चेति ॥ ५८ ॥
गतार्थमेतत् ॥ इदानीमुपलब्धेरपि संक्षेपेण विरुद्धाविरुद्धभेदात् द्वैविध्यमुपदर्शयन्नविरुद्धोपलब्धेर्विधौ साध्ये विस्तरतो भेदमाहअविरुद्धोपलब्धिर्विधौ षोढा व्याप्य कार्यकारणपूर्वोत्तरसहचर
... भेदादिति ॥५६॥ पूर्व च उत्तरं च सह चेति द्वंद्वः। पूर्वोत्तरसह इत्यतेभ्यश्चर इत्यनुकरणनिर्देशः॥ द्वन्द्वात् श्रूयमाणश्चरशब्दः प्रत्येकमभिसम्बध्यते । तेनायमर्थः पूर्वचरोत्तरचरसहचरा इति । पश्चाद्व्याप्यादिभिः सह द्वन्द्वः ॥ अत्राह सौगतः-विधिसाधनं द्विविधमेव । स्वभावकार्यभेदात् । कारणस्य तु कार्याविनाभावाभावादलिङ्गत्वम् । नावश्यं कारणानि कार्यवन्ति भवन्तीति वचनात् ॥ अप्रतिबद्धसामर्थ्यस्य कार्यम्पति गमकत्वमित्यपि नोत्तरम् । सामर्थ्यस्यातीन्द्रियतया विद्यमानस्यापि निश्चेतुमशक्यत्वादिति ॥ तदसमीतिताभिधानमिति दर्शयितुमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org