________________
प्रमेयरत्नमाला - प्रतिज्ञायास्तु निगमनमिति ॥५१॥ उपसंहार इति वर्तते । प्रतिज्ञाया उपसंहारः साध्यधर्मविशिष्टत्वेन प्रदर्शनं निगमनामित्यर्थः ॥ ननु शास्त्रे दृष्टान्तादयो वक्तव्या एवेति नियमानभ्युपगमात्कथं तत्त्रयमिह सूरिभिः प्रपश्चितमिति न चोद्यम् । स्वयमनभ्युपगमेऽपि प्रतिपाद्यानुरोधेन जिनमतानुसारिभिः प्रयोगपरिपाट्याः प्रतिपन्नत्वात् । सा चाज्ञाततत्स्वरूपैः कर्तुं न शक्यत इति तत्स्वरूपमपि शास्त्रेऽभिधातव्यमेवेति॥ तदेवं मतभेदेन द्वित्रिचतुःपञ्चावयवरूपमनुमानं द्विप्रकारमेवेति दर्शयनाह
___ तदनुमानं द्वेधा ॥ ५२ ॥ तद्वैविध्यमेवाह
स्वार्थपरार्थभेदादिति ॥ ५३॥ स्वपरविप्रतिपत्तिनिरासफलत्वाद्विविधमेवेति भावः स्वार्थानुमानभेदं दर्शयन्नाह
___ स्वार्थमुक्तलक्षणम् ॥५४ ॥ साधनात्साध्यविज्ञानमनुमानमिति मागुक्तं लक्षणं यस्य तत्तथोक्तमित्यर्थः॥ द्वितीयमनुमानभेदं दर्शयन्नाह___ परार्थं तु तदर्थपरामशिवचनाजातमिति ॥ ५५ ॥
तस्य स्वार्थानुमानस्यार्थः साध्यसाधनलक्षणः । तं परामृशतीत्येवं शीलं तदर्थपरामार्श । तच्च तद्वचनं च तस्माज्जातमुत्पन्न विज्ञानं परार्थानुमानमिति ॥ ननु वचनात्मकं परार्थानुमानं प्रसिद्धं, तत्कथं तदर्थपतिपादकवचनजनितविज्ञानस्य परार्थानुमानत्वमभिदधता न संगृहीतमिति न वाच्यम् । अचेतनस्य साक्षात्ममितिहेतुत्वाभावेन निरूपचरितप्रमाणभावाभावात् । मुख्यानुमानहेतुत्वेन तस्योपचरितानुमानव्यपदेशो न वार्यत एव ॥ तदेवोपचरितं परार्थानुमानत्वं तद्वचनस्याचार्यः माह
___ तद्वचनमपि तद्धेतुत्वादिति ॥ ५६ ॥ उपचारो हि मुख्याभावे सति प्रयोजने निमित्ते च प्रवर्तते । तत्र वचनस्य परार्थानुमानत्वे निमित्तं तद्धेतुत्वम् । तस्य प्रतिपाद्यानुमानस्य हेतुस्तद्ध
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org