________________
प्रमेयरत्नमाला समर्थनं वा वरं हेतुरूपमनुमानावयवो
बाऽस्तु साध्ये तदुपयोगात् ॥ ४५ ॥ प्रथमो वाशब्द एवकारार्थे । द्वितीयस्तु पक्षान्तरसूचने । शेष सुगमम् ॥ ननु दृष्टान्तादिकमन्तरेण मन्दधियामवबोधयितुमशक्यत्वात्कथं पक्षहेतुपयागमात्रेण तेषां साध्यविप्रतिपत्तिरिति तत्राह
बालव्युत्पत्त्यर्थं तत्रयोपगमे शास्त्र एवासौ
न वादेऽनुपयोगादिति ॥ ४६॥ बालानां अल्पप्रज्ञानां व्युत्पत्त्यर्थं तेषामुदाहरणादीनां त्रयोपगमे शास्त्र एवासौ तत्रयोपगमो न वादे नहि वादकाले शिष्या व्युत्पाद्याः । व्युत्पन्नानामेव तत्राधिकारादिति ॥ बालव्युत्पत्त्यर्थ तत्रयोपगम इत्यादिना शास्त्रेऽभ्युपगतमेवोदाहरणादित्रयमुपदर्शयति
___ दृष्टान्तो द्वेधा । अन्वयव्यतिरेकभेदादिति ॥४७॥ . दृष्टावन्तौ साध्यसाधनलक्षणो धर्मावन्वयमुखेन व्यतिरकद्वारेण वा यत्र स दृष्टान्त इत्यन्वर्थसंज्ञाकरणात् । स द्वेधैवोपपद्यते ॥ तत्रान्वयदृष्टान्तं दर्शयन्नाह
साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वयदृष्टान्तः ॥४८॥ साध्येन व्याप्तं नियतं साधनं हेतुर्यत्र दर्श्यते व्याप्तिपूर्वकतयेति भावः ॥ द्वितीयभेदमुपदर्शयतिसाध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः ॥ ४६॥
असत्यसद्भावो व्यतिरेकः । तत्प्रधानो दृष्टान्तो व्यतिरेकदृष्टान्तः । साध्याभावे साधनस्याभाव एवेति सावधारणं द्रष्टव्यम् ॥ क्रममासमुपनयस्वरूपं निरूपयति
हेतोरुपसंहार उपनयः ॥ ५० ॥ - पक्षे इत्यध्याहारः । तेनायमर्थः-हेतोः पतधर्मतयोपसंहार उपनय इति ॥ निगमनस्वरूपमुपदर्शति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org