________________
प्रमेयरत्नमाला व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् ॥ ४०॥ तत्रापि उदाहरणेऽपि। तद्विप्रतिपत्तौ सामान्यव्याप्तिविप्रतिपत्तावित्यर्थः ॥ शेष व्याख्यातम् ॥ तृतीयविकल्पे दूषणमाह
नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादेव तत्स्मृतेः॥४१॥
गृहीतसम्बन्धस्य हेतुमदर्शनेनैव व्याप्तिसिद्धिरगृहीतसम्बन्धस्य दृष्टान्तशवेनापि न तत्स्मरणमनुभूतविषयत्वात्स्मरणस्यति भावः ॥ तदेवमुदाहरणप्रयोगस्य साध्यार्थ प्रति नोपयोगित्वं प्रत्युत संशयहेतुत्वमेवेति दर्शयतितत्परमभिधीयमानं साध्यधर्मिणि साध्य
साधने सन्देहयति ॥ ४२ ॥ तदुदाहरणं परं केवलमभिधीयमानं साध्यधर्मिणि साध्यविशिष्टे धर्मिणि साध्यसाधने सन्देहयति सन्देहवती करोति । दृष्टान्तधार्माण साध्यव्याप्तसाधनोपदर्शनेऽपि साध्यधर्मिणि तनिर्णयस्य कर्तुमशक्यत्वादिति शेषः ॥ अमुमेवार्थ व्यतिरेकमुखेन समर्थयमानः प्राह
कुतोऽन्यथोपनयनिगमने ॥ ४३ ॥ अन्यथा संशयहेतुत्वाभावे कस्माद्धेतोरुपनयनिगमने प्रयुज्यते ॥ अपरः प्राह-उपनयनिगमनयोरप्यनुमानाङ्गत्वमेव, तदप्रयोगे निरवकरसाध्यसंवित्तेरयोगादिति । तनिषेधार्थमाहन च ते तदङ्गे । साध्यधर्मिणि हेतुसाध्ययो
वचनादेवासंशयात् ॥ ४४ ॥ ते उपनयनिगमने अपि वक्ष्यमाणलक्षणे तस्यानुमानस्याने न भवतः । साध्यधर्मािण हेतुसाध्ययोर्वचनादेवेत्येवकारेण दृष्टान्तादिकमन्तरेणेत्यर्थः ॥ किश्चाभिधायापि दृष्टान्तादिकं समर्थनमवश्यं वक्तव्यमसमर्थितस्याहेतुत्वादिति तदेव वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्यसिद्धौतस्यैवोपयोगानोदाहरणादिकमेतदेवाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org