________________
प्रमेयरत्नमाला पक्षधर्मत्वादिभेदेन च त्रिधा हेतुमुक्त्वा समर्थयमानेन पक्षप्रयोगोऽप्यभ्युपगन्तव्य एवेति ॥ अमुमेवार्थमाह
को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति ॥ ३६॥
को वा वादी प्रतिवादी चेत्यर्थः । किलार्थे वा-शब्दः । युक्त्या पक्षप्रयोगस्यावश्यंभावे कः किल न पक्षयति ? पतं न करोत्यापितु करोत्येव ॥ किं कुर्वन्समर्थयमानः। किं कृत्वा हेतुमुक्त्वैव । न पुनरनुक्त्वेत्यर्थः । समर्थनं हि हेतोरसिद्धत्वादिदोषपरिहारेण स्वसाध्यसाधनसामर्थ्यप्ररूपणप्रवणं वचनम् । तच्च हेतुपयोगोत्तरकालं परेणाङ्गीकृतमित्युक्त्वेति वचनम् ॥ ननु भवतु पक्षप्रयोगस्तथापि पक्षहेतुदृष्टान्तभेदेन व्यवयवमनुमानमिति सांख्यः । प्रतिज्ञाहेतूदाहरणोपनयभेदेन चतुरवयवमिति मीमांसकः । प्रतिज्ञाहेतूदाहरणोपनयनिगमनभेदात्पश्चावयवमिति योगः। तन्मतमपाकुर्वन्स्वमतसिद्धमवयवद्वयमेवोपदर्शयन्नाह
___एतद्द्वयमेवानुमानाङ्ग नोदाहरणमिति ॥ ३७ ॥ एतयोः पक्षहेत्वोयमेव नातिरिक्तमित्यर्थः । एवकारेणैवोदाहरणादि व्यवच्छेदे सिद्धेऽपि परमतनिरासार्थ पुनर्नोदाहरणमित्युक्तम् । तद्धि किंसाध्यप्रतिपत्त्यर्थमुतस्विद्धतोरविनाभावनियमार्थमाहोस्विव्याप्तिस्मरणार्थमिति विकल्पान् क्रमेण दूषयन्नाहन हि तत्साध्यप्रतिपत्यङ्गं तत्र यथोक्तहेतोरेव व्यापारात् ॥ ३८ ॥
तदुदाहरणं साध्यप्रतिपत्तेरङ्गं कारणं नेति सम्बन्धः । तत्र साध्यप्रतिपत्तौ यथोक्तस्य साध्याविनाभावित्वेन निश्चितस्य हेतोापारादिति ॥ द्वितीयविकल्पं शोधयन्नाह
तदविनाभावनिश्चयार्थं वा विपक्षे बाधकादेव तत्सिद्धेः ॥ ३६॥
तदिति वर्तते । नेति च । तेनायमर्थः तदुदाहरणं तेन साध्येनाविनाभावनिश्चयार्थं वा न भवतीति । विपक्षे बाधकादेव तत्सिद्धरविनाभावनिश्चयसिद्धेः ॥ किश्च व्यक्तिरूपं निदर्शनं तत्कथं साकल्येन व्याप्तिं गमयेत् । व्यक्त्यन्तरेषु व्याप्त्यर्थं पुनरुदाहरणान्तरं मृग्यम् । तस्यापि व्यक्तिरूपत्वेन सामान्येन व्याप्तेरवधारयितुमशक्यत्वादपरापरतदन्तरापेक्षायामनवस्था स्यात् ॥ एतदेवाह--
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org