________________
प्रमेयरत्नमाला तनिश्चयेऽपि तं प्रत्यनुमानानर्थक्यात् ॥ प्रयोगकालापेक्षया धर्मविशिष्टधर्मिणः साध्यत्वमभिधाय व्याप्तिकालापेक्षया साध्यनियमं दर्शयन्नाह
व्याप्तौ तु साध्यं धर्म एवेति ॥ ३२ ॥ सुगमम् ॥ धर्मिणोऽपि साध्यत्वे को दोष इत्यत्राह
अन्यथा तदघटनादिति ॥ ३३ ॥ उक्तविपर्ययेऽन्यथाशब्दः। धर्मिणः साध्यत्वे तदघटनात् व्याप्त्यघटनादिति हेतुः॥ न हि धूमदर्शनात्सर्वत्र पर्वतोऽग्निमानिति व्याप्तिः शक्या कर्तुं प्रमाणविरोधात् ॥ नन्वनुमाने पक्षप्रयोगस्यासम्भवात् प्रसिद्धो धर्मीत्यादिवचनमयुक्तम् । तस्य सामर्थ्यलब्धत्वात् ॥ तथापि तद्वचने पुनरुक्ततापसङ्गात् । अर्थादापन्नस्यापि पुनर्वचनं पुनरुक्तमित्यभिधानादिति सौगतस्तत्राहसाध्यधर्माधारसन्देहापनोदाय गम्यमानस्यापि पक्षस्य
वचनम् ॥ ३४ ॥ ___ साध्यमेव धर्मस्तस्याधारस्तत्र सन्देहो महानसादिः पर्वतादिति । तस्यापनोदो व्यवच्छेदस्तदर्थ गम्यमानस्यापि साध्यसाधनयोाप्यव्यापकभावप्रदर्शनान्यथानुपपत्तेस्तदाधारस्य गम्यमानस्यापि पतस्य वचनं प्रयोगः ॥ अत्रोदाहरणमाहसाध्यधर्मिणि साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् ॥ ३५ ॥
साध्येन विशिष्टो धर्मी पर्वतादिस्तत्र साधनधर्मावबोधनाय पक्षधर्मोपसंहारवत् । पक्षधर्मस्य हेतोरुपसंहार उपनयस्तद्वदिति ॥ अयमर्थःसाध्यव्याप्तसाधनप्रदर्शनेन तदाधारावगतावपि नियतधर्मिसम्बन्धिताप्रदर्शनार्थ यथोपनयस्तथा साध्यस्य विशिष्टधर्मिसम्बन्धितावबोधनाय पक्षवचनमपीति ॥ किञ्च हेतुपयोगेऽपि समर्थनमवश्यं वक्तव्यम् । असमर्थितस्य हेतुत्वायोगात् ॥ तथा च समर्थनोपन्यासादेव हेतोः सामर्थ्यसिद्धत्वाद्धेतुप्रयोगोऽनर्थकः स्यात् । हेतुप्रयोगाभावे कस्य समर्थन मिति चेत्-पत्तप्रयोगाभावे क हेतुर्वर्ततामिति समानमेतत् ॥ तस्मात्कार्यस्वभावानुपलम्भमेदेम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org