________________
प्रमेयरत्नमाला विकल्पसिद्ध तस्मिन्सत्तेतरे साध्ये ॥ २८ ॥ तस्मिन्धर्मिणि विकल्पसिद्धे सत्ता च तदपेक्षयेतराऽसत्ता च ते द्वे अपि साध्ये सुनिर्णीतासम्भवाद्वाधकप्रमाणबलेन योग्यानुपलब्धिबलेन चेति शेषः।। अत्रोदाहरणमाह
अस्ति सर्वज्ञो नास्ति खरविषाणमिति ॥ २६ ॥ सुगमम् ॥ ननु धर्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरुद्धानैकान्तिकत्वादनुमानविषयत्वायोगात् कथं सत्तेतरयोः साध्यत्वम् ? ॥ तदुकम्-असिद्धो भावधर्मश्चेव्यभिचार्युभयाश्रितः । विरुद्धो धर्मो भावस्य सा सत्ता साध्यते कथम् । इति ॥ तदयुक्तम्-मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् ॥ न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वाद्वयर्थमनुमानम् । तदभ्युपेतमपि वैययात्यायदा परो न प्रतिपद्यते तदाऽनुमानस्य साफल्यात् ॥ न च मानसज्ञानाद्गगनकुसुमादेरपि सद्भावसम्भावनाऽतोऽतिमसङ्गः । तज्ज्ञानस्य बाधकमत्ययव्यपाकृतसत्ताकवस्तुविषयतया मानसप्रत्यक्षासत्वात कथं तर्हि तुरगङ्गादेर्धर्मित्वमिति न चोद्यम्-धर्मिमयोगकाले बाधकमत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः ॥ न च सर्वज्ञादौ साधकप्रमाणासत्त्वेन सत्वं प्रति संशीतिः सुनिश्चितासम्भवाद्वाधकप्रमाणत्वेन सुखादाविव सत्त्वनिश्रयात्तत्र संशयायोगात् । इदानीं प्रमाणोभयसिद्ध धर्मिणि किं साध्यमित्याशङ्कायामाह
प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ॥ ३० ॥ साध्ये इति शब्दः प्राक् द्विवचनान्तोऽप्यर्थवशादेकवचनान्ततया सम्ब ध्यते । प्रमाणं चोभयं च विकल्पप्रमाणद्वयं, ताभ्यां सिद्ध धर्मिणि साध्यधर्मविशिष्टता साध्या । अयमर्थः- प्रमाणप्रतिपन्नमपि वस्तु विशिष्टधर्माधारतया विवादपदमारोहतीति साध्यतां नातिवर्त्तत इति एवमुभयसिद्धेऽपि योज्यम् ॥ प्रमाणोभयसिद्धं धर्मिद्वयं क्रमेण दर्शयबाह
अग्निमानयं देशः परिणामी शब्द इति यथा ॥ ३१॥ . देशो हि प्रत्यक्षेण सिद्धः शब्दस्तुभयसिद्धः। नहि प्रत्यक्षेणाग्दिर्शिभिरनियतदिग्देशकालावच्छिनाः सर्वे शब्दा निधेतुं पार्यन्ते । सर्वदर्शिनस्तु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org