________________
प्रमेयरनमाला न चासिद्धवदिष्टं प्रतिवादिनः ॥ २३ ॥ अयमर्थः-न हि सर्व सर्वापेक्षया विशेषणमपि तु किश्चित्कमप्युद्दिश्य भवतीति । असिद्धवदिति व्यतिरेकमुखेनोदाहरणम् । यथा असिद्धं प्रतिवाद्यपेक्षया न तथेष्टमित्यर्थः । कुत एतदित्याह
प्रत्यायनाय हीच्छा वक्तुरेव ॥ २४॥ . इच्छायाः खलु विषयी कृतमिष्टमुच्यते । प्रत्यायनाय हीच्छा वक्तुरेवेति ॥ तच्च साध्यं धर्मः किं वा तद्विशिष्टो धर्मीति प्रश्ने तद्भेदं दर्शयन्नाह
साध्यं धर्मः कचित्तद्विशिष्टो वा धीति ॥ २५ ॥ सोपस्काराणि वाक्यानि भवन्ति । ततोऽयमों लभ्यते-व्याप्तिकालापेक्षया तु साध्यं धर्मः । कचित्प्रयोगकालापेक्षया तु तद्विशिष्टो धर्मी साध्यः ॥ अस्यैव धर्मिणो नामान्तरमाह
पक्ष इति यावत् ॥ २६॥ ___ ननु धर्मधर्मिसमुदायः पक्ष इति पक्षस्वरूपस्य पुरातनैनिरूपितत्वाद्धर्मिणस्तद्वचने कथं न राद्धान्तविरोध इति ॥ नैवं-साध्यधर्माधारतया विशेषितस्य धर्मिणः पत्तत्ववचनेऽपि दोषानवकाशात् । रचनावैचित्र्यमात्रेण तात्पर्यस्यानिराकृतत्वात्सिद्धान्ताविरोधात् ॥ अत्राह सौगतः भवतु नाम धर्मी पक्षव्यपदेशभाक् तथापि सविकल्पबुद्धौ परिवर्तमान एव न वास्तवः। सर्व एवानुमानानुमेयव्यवहारो बुद्धयाख्ढेन धर्मधर्मिन्यायेन बहिः सदसत्त्वमपेक्षत इत्यभिधानादिति तन्निरासार्थमाह
प्रसिद्धो धर्मीति ॥ २७ ॥ अयमर्थः- नेयं विकल्पबुद्धिर्बहिरन्तर्वा नासादितालम्बनभावा धर्मिणं व्यवस्थापयति । तदवास्तवत्वेन तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेस्तबुद्धः पारंपर्येणापि वस्तुव्यवस्थानिबन्धनत्वायोगात् । ततो विकल्पेनान्येन वा व्यवस्थापितः पर्वतादिर्विषयभावं भजन्नेव धर्मितां प्रतिपद्यत इति स्थितं प्रसिद्धो धर्मीति । तत्प्रसिद्धिश्च कचिद्विकल्पतः कचित्पमाणतः कचिचोभयत इति नैकान्तेन विकल्पाधिरूढस्य प्रमाणप्रसिद्धस्य वा धमित्वम्॥ ननु धर्मिणो विकल्पात्मतिपत्तौ किं तव साध्यमित्याशङ्कायामाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org