________________
प्रमेयरत्नमाला ध्वजयोः क्रमभावः ॥ नन्ववम्भूतस्याविनाभावस्य न प्रत्यक्षेण ग्रहणं, तस्य सन्निहितविषयत्वात् ॥ नाप्यनुमानेन, प्रकृतापरानुमानकल्पनायामितरेतराश्रयत्वानवस्थावतारात् ॥ आगमादेरपि भिन्नविषयत्वेन सुप्रसिद्धत्वान्न ततोऽपि तत्मतिपत्तिरित्यारेकायामाह
तर्कात्तन्निर्णयः॥ १६ ॥ तांद्यथोक्तलक्षणादूहात्तनिर्णय इति ॥ अथेदानी साध्यलक्षणमाह
इष्टमबाधितमसिद्धं साध्यम् ॥ २० ॥ अत्रापरेदूषणमाचक्षते-आसनशयनभोजनयाननिधुवनादेरपीष्टत्वात्तदपि साध्यमनुषज्यत इति । तेऽप्यतिवालिशा अप्रस्तुतपलापित्वात् ॥ अत्र हि साधनमधिक्रियते । तेन साधनविषयत्वेनेप्सितमिष्टमुच्यते ॥ इदानीं स्वाभिहितसाध्यलक्षणस्य विशेषणनि सफलयनसिद्धविशेषणं समर्थयितुमाह
सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं
यथा स्यादित्यसिद्धपदम् ॥२१॥ तत्र सन्दिग्धं स्थाणुर्वा पुरुषो वेत्येनवधारणेनोभयकोटिपरामाशिसंशयाकलितं वस्तु उच्यते ॥ विपर्यस्तं तु विपरीतावभासिविपर्ययज्ञानविषयभूतं रजतादि ॥ अव्युत्पन्नं तु नामजातिसंख्यादिविशेषापरिज्ञानेनानि गीतविषयानध्यवसायंग्राह्यम् ॥ एषां साध्यत्वमतिपादनार्थमासद्धपदोपादानमित्यर्थः ॥ अधुनेष्टाबाधितविशेषणद्वयस्य साफल्यं दर्शयन्नाह
- अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं मा भू
. दितीष्टाबाधितवचनम् ॥ २२ ॥ अनिष्टो मीमांसकस्यानित्यः शब्दः प्रत्यक्षादिबाधितश्चाश्रावणत्वादिः। आदिशब्देनानुमानागमलोकस्ववचनबाधितानां ग्रहणम् । तदुदाहरणं चाकिश्चित्करस्य हेत्वाभासस्य निरूपणावसरे स्वयमेव ग्रन्थकारः प्रपञ्चयिष्यतीत्युपरम्यते ॥ तत्रासिद्धपदं प्रतिवाद्यपेक्षयैव,इष्टपदं तु वाद्यपेक्षयेति विशेषमुपदर्शयितुमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org