________________
२८
मेयरत्नमाला
श्रेयसी । न त्रिरूपता । तस्यां सत्यामपि यथोक्तलक्षणाभावे हेतोर्गमकत्वादर्शनात् ।। तथाहि - स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यत्र त्रैरूप्य - सम्भवेऽपि न गमकत्वमुपलक्ष्यते । अथ विपक्षाद्वयावृत्तिर्नियमवती तत्र न दृश्यते । ततो न गमकत्वमिति । तदपि मुग्धविलसितमेव । तस्या एवाविनाभावरूपत्वात् ।। इतररूपसद्भावेऽपि तदभावे हेतो: स्वसाध्यसिद्धिम्प्रतिगमकत्वानिष्टौ सैव प्रधानं लक्षणमतुख्यमुपलक्षणीयमिति ।। तत्सद्भावे चेतररूपद्वयनिरपेक्षतया गमकत्वोपपत्तेश्च । यथा सन्त्यद्वैतवादिनोऽपि प्रमाणानिष्टानिष्टसाधनदूषणाऽन्यथाऽनुपपत्तेः । न चात्र पक्षधर्मत्वं सपक्षान्वयो वाऽस्ति । केवलमविनाभावमात्रेण गमकत्वप्रतीतेः।। यदप्य पर मुक्तं परैः पक्षधर्मताभावेऽपि काकस्य कायद्धवलः प्रासाद इत्यस्यापि गमकत्वापत्तिरिति तदप्यनेन निरस्तम् ॥ अन्यथानुपपत्तिबलेनैव पक्षधर्मस्यापि साधुत्वाभ्युपगमात् || न चेह साऽस्ति । ततोऽविनाभाव एव हेतोः प्रधानं लक्षणमभ्युपगन्तव्यम् । तस्मिन्सत्यसति त्रिलक्षणत्वेऽपि हेतोर्गमकत्वदर्शनादिति न त्रैरूप्यं हेतुलक्ष
मव्यापकत्वात् ।। सर्वेषां क्षणिकत्वे साध्ये सत्वादेः साधनस्य सपक्षे सतोऽपि स्वयं सौगतैर्गमकत्वाभ्युपगमात् । एतेन पञ्चलक्षणत्वमपि यौगपरिकल्पितं न हेतोरुपपत्तिमियतीत्यभिहितं बोद्धव्यम् । पक्षधर्मत्वे सत्यन्वयव्यतिरेकावबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चलक्षणानि, तेषामप्यविनाभावप्रपञ्चतैवावाधितविषयस्याविनाभावायोगात् । सत्प्रतिपक्षस्येवेति साध्याभासविषयत्वेनासम्यग्धेतुत्वाच्च || यथोक्तपक्षविषयत्वाभावातदोषेणैव दुष्टत्वात् । अतः स्थितं साध्याविनाभावित्वेन निश्चितो हेतुरिति ॥ इदानीमविनाभावभेदं दर्शयन्नाह -
सहक्रमभावनियमो ऽविनाभावः ॥ १६ ॥
तत्र सहभावनियमस्य विषयं दर्शयन्नाह -
सहचारिणोर्व्याप्यव्यापकयोश्च सहभावः ॥ १७ ॥
सहचारिणो रूपरसयोर्व्याप्यव्यापकयोश्च वृक्षत्वशिंशपात्वयोरिति सप्तम्या विषयो निर्दिष्टः ।। क्रमभावनियमस्य विषयं दर्शयन्नाह - पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥ १८ ॥ पूर्वोत्तरचारिणोः कृत्तिकोदयशकटोदययोः कार्यकारणयोश्च धूमधूम
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org