________________
२७
प्रमेयरनमाला पृथुस्तनी ॥ युवतिकभृङ्गोऽपि गण्डकः परिकीर्तितः ॥ २ ॥ शरभोऽप्यष्टभिः पादैः सिंहश्चारुसटान्वितः ॥ इत्येवमादिशब्दश्रवणात्तथाविधानेव मरालादीनवलोक्य तथा सत्यापयति यदा तदा तत्सङ्कलनमपि प्रत्यभिज्ञानमुक्तं, दर्शनस्मरणकारणत्वाविशेषात् ॥ परेषां तु तत्ममाणान्तरमेवोपपद्यते उपमानादौ तस्यान्तीवाभावात् । अथोहोऽवसरमाप्त इत्याह
उपलम्भानुपलम्भनिमित्तं व्याप्तिज्ञानमूहः॥११॥ इदमस्मिन्सत्येव भवत्यसति न भवत्येवेति च ॥ १२॥ उपलम्भः प्रमाणमात्रमत्र गृह्यते । यदि प्रत्यक्षमेवोपलम्भशब्देनोच्यते तदा साधनेष्वनुमेयेषु व्याप्तिज्ञानं न स्यात् ॥ अथ व्याप्तिः सर्वोपसंहारेण प्रतीयते, सा कथमतीन्द्रियस्य साधनस्यातीन्द्रियेण साध्येन भवेदिति । नैवं प्रत्यक्षविषयेष्विवानुमानविषयेष्वपि व्याप्तेरविरोधात् ॥ तज्ज्ञानस्याप्रत्यक्षत्वाभ्युपगमात् ॥ उदाहरणमाह
यथाग्नावेव धूमस्तदभावे न भवत्येवेति च ॥ १३ ॥ इदानीमनुमानं क्रमायातमिति तल्लक्षणमाह
साधनात्साध्यविज्ञानमनुमानम् ॥ १४ ॥ साधनस्य लक्षणमाह- . .
साध्याविनाभावित्वेन निश्चितो हेतुः ॥१५॥ ननु त्रैरूप्यमेव हेतोर्लक्षणं, तस्मिन्सत्येव हेतोरसिद्धादिदोषपरिहारोपपत्तेः। तथा हि- पक्षधर्मत्वप्रसिद्धत्वव्यवच्छेदार्थमभिधीयते । सपक्षे सत्त्वं तु विरुद्धत्वापनोदार्थम् । विपक्षे चासत्वमेवानैकान्तिकव्युदासार्थमिति ॥ तदुक्तम् । “हेतोत्रिष्वपि रूपेषु निर्णयस्तेन वर्णितः। प्रसिद्धविपरीतार्थव्यभिचारिविपक्षतः" इति ॥ १ ॥ तदयुक्तं- अविनाभावनियमनिश्चयादेव दोषत्रयपरिहारोपपत्तेः । अविनाभावो ह्यन्यथानुपपन्नत्वं, तच्चासिद्धस्य न सम्भवत्येव । अन्यथानुपपन्नत्वमासिद्धस्य न सिद्ध्यतीत्यभिधानात् ॥ नापि विरुद्धस्य तल्लक्षणत्वोपपत्तिर्विपरीतनिश्चिताविनाभाविनि यथोक्तसाध्यविनाभावनियमलक्षणस्यानुपपत्तेविरोधात् ॥ व्यभिचारिण्यपि न प्रकृतलक्षणावकाशः । तत एव ततोऽन्यथाऽनुपपत्तिरेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org