________________
प्रमेयरत्नमाला
तृतीयः समुद्देशः। अथेदानीमुद्दिष्टे प्रत्यक्षतरभेदेन प्रमाणद्वित्वे प्रथमभेदं व्याख्याय, इतरद्वयाचष्टे
परोक्षमितरदिति ॥१॥ ___ उतपतिपक्षमितरच्छन्दो ब्रूते । ततः प्रत्यक्षादितरदिति लभ्यते, तच्च परोक्षमिति ॥ तस्य च सामग्रीस्वरूपे निरूपयन्नाहप्रत्यक्षादिनिमित्तं स्मृतिप्रत्यभिज्ञानतर्कानुमानागमभेदमिति ॥२॥
प्रत्यक्षादिनिमित्तमित्यत्रादिशब्देन परोक्षमपि गृह्यते । तच्च यथावसरं निरूपयिष्यते ॥ प्रत्यक्षादिनिमित्तं यस्य इति विग्रहः ॥ स्मृत्यादिषु द्वंद्वः ।। ते भेदा यस्य इति विग्रहः॥ तत्र स्मृति क्रमप्राप्तं दर्शयन्नाहसंस्कारोद्बोधनिबन्धना तदित्याकारा स्मृतिरिति ॥ ३ ॥
संस्कारस्योहाधः प्राकटयं स निबन्धनं यस्याः सा तथोक्ता तदित्याकारा तदित्युल्लेखिनी, एवम्भूता स्मृतिर्भवतीति शेषः॥ उदाहरणमाह
स देवदत्तो यथेति ॥ ४॥ प्रत्यभिज्ञानं प्राप्तकालमाह
दर्शनस्मरणकारणकं सङ्कलनं प्रत्यभिज्ञानम् । तदेवेदं तत्सदृशं तद्विलक्षणं तत्प्रतियोगीत्यादि ॥५॥
अत्र दर्शनस्मरणकारणत्वात् सादृश्यादिविषयस्यापि प्रत्यभिज्ञानत्वमुक्तम् । येषां तु सादृश्यविषयमुपमानाख्यं प्रमाणान्तरं तेषां वैलक्षण्यादिविषयं प्रमाणान्तरमनुषज्येत ॥ तथा चोक्तम्-॥ उपमानं प्रसिद्धार्थसाधात्साध्यसाधनम् । तद्वैधात्प्रमाणं किं स्यात्संज्ञिप्रतिपादनम् ॥ १॥ इदमल्पं महद्द रमासनं प्रांशु नैति वा । व्यपेक्षातः समतेऽर्थे विकल्पः साधनान्तरमिति ॥ २ ॥ एषां क्रमेणोदाहरणं दर्शयन्नाह
यथा स एवायं देवदत्तः ॥ ६ ॥ गोसदृशो गवयः ॥ ७॥ गोविलक्षणो महिषः ॥ ८ ॥ इदमस्मादूरम् ॥ ६ ॥ वृक्षोऽयमित्यादि॥१०॥ ___ आदिशब्देन पयोम्बुभेदी हंसः स्यात् षट्पादैर्भमरः स्मृतः ॥ समपर्णैस्तु तत्वहौर्विज्ञेयो विषमच्छदः॥१॥ पञ्चवर्ण भवेद्रनं मेचकाख्यं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org