________________
प्रमेयरत्नमाला तत्वं हेतुरन्यत्रान्वीयमानद्वयाविनाभावित्वेन पुरुषाद्वैतं प्रतिबध्नातीति स्वेष्टविघातकारित्वाद्विरुद्धः । अन्वितत्वमेकहेतुके घटादावनकहतुके स्तम्भकुम्भाम्भोरुहादावप्युपलभ्यत इत्यनैकान्तिकश्च । किमर्थं चेदं कार्यमसौ विदधाति ? अन्येन प्रयुक्तत्वात् कृपावशात् क्रीडावशात् स्वभावाद्वा ? अन्येन प्रयुक्तत्वे स्वातन्व्यहानिद्वैतप्रसङ्गश्च । कृपावशादिति नोत्तरम् । कृपायां दुःखिनामकारुणपसङ्गात् । परोपकारकरणनिष्ठत्वात्तस्याःसृष्टेः प्रागनुकम्पाविषयमाणिनामभावाच न सा युज्यते । कृपापरस्य प्रलयविधानायोगाच्च ॥ अदृष्टवशात्तद्विधाने स्वातन्त्र्यहानिः कृपापरस्य पीडाकारणादृष्टव्यपेक्षायोगाच्च ॥ क्रीडावशात्मवृत्तौ न प्रभुत्वं क्रीडोपायव्यपेक्षणाबालकवत् । क्रीडोपायस्य तत्साध्यस्य च युगपदुत्पत्तिप्रसङ्गश्च । सति समर्थे कारणे कार्यस्यावश्यम्भावात् ।। अन्यथा क्रमेणापि सा ततो न स्यात् ॥ अथ स्वभावादसौ जगनिर्मिनोति यथाग्निर्दहति वायुयंतीति मतं, तदपि बालभाषितमेव पूर्वोक्तदोषानिवृत्तेः ॥ तथाहि- क्रमवर्तिविवर्तजातमखिलमपि युगपदुत्पद्येत । अपेतणीयस्य सहकारिणोऽपि तत्साध्यत्वेन यौगपद्यसम्भवात् उदाहरणवैषम्यं च। वहयादेः कादाचित्कस्य हेतुजनितस्य नियतशक्त्यात्मकत्वोपपत्तेरन्यत्र नित्यव्यापिसमर्थैकस्वभावकारणजन्यत्वेन देशकालप्रतिनियमस्य कार्ये दुरुपपादात् ॥ तदेवं ब्रह्मणोऽसिद्धौ वेदानां तत्सुप्तप्रबुद्धावस्थात्वप्रतिपादनं परमपुरुषाख्यमहाभूतनि:श्वसिताभिधानं च गगनारबिन्दमकरन्दव्यावर्णनवदनवधेयार्थविषयत्वादुपेक्षामर्हति ॥ यच्चागमः प्रमाणं 'सर्व वै खाल्वदं ब्रह्मे"त्यादि "ऊर्णनाभ" इत्यादि च तत्सर्वमुक्तविधिना अद्वैतविरोधीति नावकाशं लभते ॥ न चापौरुषेय आगमोऽस्तीत्यग्रे प्रपञ्चयिष्यते । तस्मात्र पुरुषोत्तमोऽपि विचारणां पाश्चति ॥
प्रत्यक्षतरभेदभिन्नममलं मानं द्विधैवोदितं देवैर्दीप्तगुणैर्विचार्य विधिवत्संख्याततेः संग्रहात् । मानानामिति तद्दिगप्यभिहितं श्रीरत्ननन्याहयैस्तद्वयाख्यानमदो विशुद्धधिषणैर्बोद्धव्यमव्याहतम् ॥ १ ॥ मुख्यसंव्यवहाराभ्यां प्रत्यक्षमुपदर्शितम् । देवोक्तमुपजीवद्भिः सूरिभापितं मया ॥२॥
इति परीक्षामुखस्य लघुवृत्तौ द्वितीयः समुद्देशः ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org