________________
ममेयरवमाला
किश्चन ॥ आरामं तस्य पश्यन्ति न तं पश्यति कश्चन ।। " इति श्रुतेश्व ॥ ननु परब्रह्मण एव परमार्थसत्त्वे कथं घटादिभेदोऽवभासत इति न चोद्यम् । सर्वस्यापि तद्विवर्ततयावभासनात् । न चाशेषभेदस्य तद्विवर्तत्वमसिद्धं प्रमाणप्रसिद्धत्वात् । तथाहि -विवादाध्यासितं विश्वमेककारणपूर्वक मेकरूपान्वितत्वात् । घटघटीसरावोदञ्चनादीनां मृदूपान्वितानां यथा मृदेककारणपूर्वकत्वं सद्रूपेणान्वितं च निखिलं वस्त्विति । तथाऽगमोऽप्यस्ति" ऊर्णनाभ इवांशूनां चन्द्रकान्त इवाम्भसाम् । प्ररोहाणामिव सक्षः स हेतुः सर्वजन्मनामि" ति ॥ तदेतन्मदिरा रसास्वादगगदोदितमिव मदनकोद्रवाद्युपयोगजनितव्यामोहमुग्धविलसितमिव निखिलमवभासते विचा रासहत्वात् । तथा हि- यत्मत्यक्ष सत्ताविषयत्वमभिहितं तत्र किं निर्विशेष सत्ताविषयत्वं सविशेषसत्तावबोधकत्वम् वा १ । न तावत्पौरस्त्यः पक्षः । सत्तायाः सामान्यरूपत्वात् । विशेषनिरपेक्षतयाऽनवभासनात् । शाबलेयादिविशेषानवभासने गोत्वाऽनवभासनवत् ।। निर्विशेषं हि सामान्यं भवेच्छशविषाणवादित्यभिधानात् ॥ सामान्यरूपत्वं च सत्तायाः सत्सदित्यन्वयबुद्धिविषयत्वेन सुप्रसिद्धमेव ॥ अथ पाश्चात्यः पक्षः कक्षीक्रीयते, तदा न परमपुरुषसिद्धिः । परस्परव्यावृत्ताकारविशेषाणामध्यक्षतोऽवभासनात् । यदपि साधनमभ्यधायि प्रतिभासमानत्वं तदपि न साधु, विचारासहत्वात् ॥ तथाहि प्रतिभासमानत्वं स्वतः परतो वा १ न तावत्स्वतोऽसिद्धत्वात् । परतश्चेद्विरुद्धम् । परतः प्रतिभासमानत्वं हि परं विना नोपपद्यते प्रतिभासनमात्रमपि न सिद्धिमधिवसति । तस्य तद्विशेषणान्तरीयकत्वात्तद्विशेषाभ्युपगमे च द्वैतप्रसक्तिः || किश्च धर्मिहेतुदृष्टान्ता अनुमानोपायभूताः प्रतिभासन्ते न वेति । प्रथमपक्षे प्रतिभासान्तः प्रविष्टाः प्रतिभासबहिर्भूता वा । यद्याथः पक्षस्तदा साध्यान्तः पातित्वान्न ततोऽनुमानम् । तद्वहिर्भावे तैरेव हेतोर्व्यभि - चारः || अप्रतिभासमानत्वेऽपि सद्व्यवस्थाभावात् ततो नानुमानमिति || अथानाद्यविद्याविजृम्भितत्वात्सर्वमेतद् सम्बद्धमित्य नल्पतमो विलसितम् । श्रविद्यायामप्युक्तदोषानुषङ्गात् । सकलविकल्पविकलत्वात्तस्या नैष दोष इत्यप्यतिमुग्धभाषितम् । केनापि रूपेण तस्याः प्रतिभासाभावे तत्स्वरूपानवधारणात् ।। अपरमप्यत्र विस्तरेण देवागमालङ्कारे चिन्तितमिति नेह प्रतन्यते ।। यच्च परमब्रह्मविवर्त्तत्वमखिलभेदानामित्युक्तम् । तत्राप्येक रूपेणान्वि
1
२४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org