________________
मेयरमाला
२३
समयस्याऽसिद्धत्वादविप्रतिपत्तिप्रसङ्गाच्च ।। कारणव्यापारानुविधायित्वं च कारणमात्रापेक्षया यदीष्यते तदा विरुद्धं साधनम् । कारणविशेषापेक्षया चेदितरेतराश्रयत्वम् । सिद्धे हि कारणविशेषे बुद्धिमति तदपेक्षया कारणव्यापारानुविधायित्वं कार्यत्वम् । ततस्तद्विशेषसिद्धिरिति सन्निवेशविशिष्टत्वमचेतनोपादानत्वं चोक्तदोषदुष्टत्वान्न पृथक् चिन्त्यते । स्वरूपभागासिद्धत्वादेस्तत्रापि सुलभत्वात् ॥ विरुद्धाश्वामी हेतवो दृष्टान्तानुग्रहेण सशरीरासर्वज्ञपूर्वकत्वसाधनात् । न धूमात्पावकानुमानेऽव्ययं दोषः । तत्र तारापार्णादिविशेषाधाराग्निमात्रव्याप्तधूमस्य दर्शनात् । नैवमत्र सर्वज्ञा सर्वज्ञकर्तृविशेषाधिकरणतत्सामान्येन कार्यत्वस्य व्याप्तिः सर्वज्ञस्य कर्तुरतोऽनुमानात्मागसिद्धत्वात् ॥ व्यभिचारिणश्वामी हेतवो बुद्धिमत्कारणमन्तरेणापि विद्यदादीनां प्रादुर्भाव सम्भवात् ।। सुप्तावस्थायामबुद्धिपूर्वकस्यापि कार्यस्य दर्शनात् ।। तदवश्यं तत्रापि भर्गाख्यं कारणमित्यतिमुग्धविलसितं तद्व्यापारस्याध्यसम्भवादशरीरत्वात् ॥ ज्ञानमात्रेण कार्यकारित्वाघटनादिच्छामयत्त्रयोः शरीराभावेऽसम्भवात्तदसम्भवश्च पुरातनैर्विस्तरेणाभिहित आप्तपरीक्षादौं । अतः पुनरत्र नोच्यते ॥ यच्च महेश्वरस्य क्लेशादिभिरपामृष्टत्वं निरतिशयत्वमैश्वर्याद्युपेतत्वं तत्सर्वमपि गगनाब्जसौरभव्यावर्णनमिव निर्विषयत्वादुपेक्षामर्हति । ततो न महेश्वरस्याशेषज्ञत्वम् । नापि ब्रह्मणः । तस्यापि सद्भावावेदक प्रमाणाभावात् ॥ न तावत्प्रत्यक्षं तदावेदकमविप्रतिपत्तिप्रसङ्गात् । न चानुमानमविनाभाविलिङ्गाभावात् । ननु प्रत्यक्षं तद्ग्राहक मस्त्येव, अक्षिविस्फालनानन्तरं निर्विकल्पकस्य सन्मात्रविधिविषयतयोत्पत्तेः । सत्तायाश्च परमब्रह्मरूपत्वात् ॥ तथाचोक्तम् - " अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पम् । बालमुकादिविज्ञानसदृशं शुद्धवस्तुजम्।। " न च विधिवत् परस्परव्यावृत्तिरप्यध्यक्षतः प्रतीयत इति द्वैतसिद्धिः । तस्य निषेधाविषयत्वात् । तथा चोक्तम् - " आहुर्विधातृप्रत्यक्षं न निषेधृविपश्चितः । नैकत्वे आागमस्तेन प्रत्यक्षेण प्रबाध्यते ।।" अनुमानादपि तत्सद्भावो विभाव्यत एव । तथाहि ग्रामारामादयः पदार्थाः प्रतिभासान्तः प्रविष्टाः प्रतिभासमानत्वात् । यत्प्रतिभासते तत्प्रतिभासान्तः प्रविष्टम् । यथा प्रतिभासस्वरूपं प्रतिभासन्ते च विवादापन्ना इति ।। तदागमानामपि पुरुष एवेदं यद्भूतं यच्च भाव्यमिति बहुलमुपलम्भात् । " सर्व वै खल्विदं ब्रह्म नेह नानास्ति
।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org