Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 328
________________ प्रमेयरत्नमाला प्राप्तवचनादिनिबन्धनमर्थज्ञानमागमः ॥ ६ ॥ यो यत्रावञ्चकः स तत्राप्तः । आप्तस्य वचनम् । आदिशब्देनांगुल्यादिसंज्ञापरिग्रहः । आप्तवचनमादिर्यस्य तत्तथोक्तं तन्निबन्धनं यस्यार्थज्ञानस्येति ॥ आप्तशब्दोपादानादपौरुषेयत्वव्यवच्छेदः। अर्थज्ञानमित्यनेनान्याप्तेहज्ञानस्याभिप्रायसुचनस्य च निरासः ॥ नन्वसम्भवीदं लक्षण, शब्दस्य नित्यत्वेनापौरुषेयत्वादाप्तपणीतत्वायोगात् । तनित्यत्वं च तदवयवानां वर्णानां व्यापकत्वान्नित्यत्वाच ॥ न च तद्वयापकत्वमसिद्धम् । एकत्र प्रयुक्तस्य गकारादेः प्रत्यभिज्ञया देशान्तरेऽपि ग्रहणात् ॥ स एवायं गकार इति नित्यत्वमपि तयैवावसीयते । कालान्तरेऽपि तस्यैवं गकारादेनिश्चयात् ॥ इतो वा नित्यत्वं शब्दस्य सङ्केतान्यथानुपपत्तेरिति । तथाहि गृहीतसङ्केतस्य शब्दस्य प्रध्वंसे सत्यगृहीतसंकेतः शब्द इदानीमन्य एवोपलभ्यते इति तत्कथमर्थप्रत्ययः स्यात् ? न चासौ न भवतीति स एवायं शब्द इति प्रत्यभिज्ञानस्यात्रापि सुलभत्वाच्च ॥ न च वर्णानां शब्दस्य वा नित्यत्वे सर्वैः सर्वदा श्रवणप्रसङ्गः । सर्वदा तदभिव्यक्तरसम्भवात् । तदसम्भवश्चाभिव्यञ्जकवायूनां प्रतिनियतत्वात् ॥ न च तेषामनुपपन्नत्वम् । प्रमाणपतिपत्नत्वात् ॥ तथाहि-वक्तृमुखनिकटदेशवर्तिभिः स्पर्शनेनाध्यक्षेण व्यञ्जका वायवो गृह्यन्ते । दूरदेशस्थितेन मुखसमीपस्थिततूलचलनादनुमीयन्ते । श्रोतृश्रोत्रदेशे शब्दश्रवणान्यथानुपपत्तेरापत्यापि निश्चीयन्ते ॥ किञ्चोत्पत्तिपक्षेऽपि समानाऽयं दोषः । तथाहि वाय्वाकाशसंयोगादसमवायिकारणादाकाशाच्च समवायिकारणादिग्देशाघविभागेनोत्पद्यमानोऽयं शब्दो न सर्वैरनुभूयते । अपि तु नियतदिग्देशस्थैवे तथाऽभिव्यज्यमानोऽपि ॥ नाप्यभिव्यक्तिसांकर्यमुभयत्रापि समानत्वादेव । तथाहि-अन्यैस्ताल्वादिसंयोगैर्यथान्यो वर्णो न क्रियते तथा ध्वन्यन्तरसारिभिस्तावादिभिरन्यो ध्वनि रभ्यते इत्युत्पत्त्यभिव्यक्त्योः समानत्वनैकत्रैव पर्यनुयोगावसर इति सर्व मुस्थम् ॥ मामूद्वर्णानां तदात्मकस्य वा शब्दस्य कौटस्थानित्यत्वम् । तथाप्यनादिपरम्परायातत्वेन वेदस्य नित्यत्वात्मकृतलक्षणस्याव्यापकत्वम् ॥ न च प्रवाहनित्यत्वमप्रमाणकमेवास्येति युक्तं वक्तुम् ॥ अधुना तत्कर्तुरनुपलम्भादतीतानागतयोरपि Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362