Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 326
________________ मेयरत्नमाला यथाऽस्मिन्प्राणिनि व्याधिविशेषोऽस्ति निरामयचेष्टानुपलब्धेरिति ॥ ८७ ॥ व्याधिविशेषस्य हि विरुद्धस्तद्भावस्तस्य कार्य निरामयचेष्टा तस्या अनुपलब्धिरिति ॥ विरुद्धकारणानुपलब्धिमाह - श्रस्त्यत्र देहिनि दुःखमिष्टसंयोगाभावात् ॥ ८८ ॥ दुःखविरोधि सुखं, तस्य कारणमिष्टसंयोगस्तदनुपलब्धिरिति ॥ विरुद्धस्वभावानुपलब्धिमाह ४२ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानुपलब्धेः ॥ ८६ ॥ अनेकान्तात्मकविरोधी नित्याद्येकान्तः । न पुनस्तद्विषयविज्ञानम् । तस्य मिथ्याज्ञानरूपतयोपलम्भसम्भवात् । तस्य स्वरूपं वास्तवाकारस्तस्यानुपलब्धिः । ननु च व्यापकविरुद्धकार्यादीनां परम्परया विरोधिकार्यादिलिङ्गानां च बहुलमुपलम्भसम्भवात्तान्यपि किमिति नाचार्यैरुदाहृतानी त्याशङ्कायामाह — परम्परया सम्भवत्साधनमत्रैवान्तर्भावनीयम् ॥ ६०॥ तेषु कार्यादिष्वित्यर्थः । तस्यैव साधनस्योपलक्षणार्थमुदाहरणद्वयं प्रदर्शयति- भूद चक्रे शिवकः स्थासात् ॥ ६१ ॥ एतच्च किं संज्ञिकं कान्तर्भवतीत्यारे कायामाह - कार्यकार्यमविरुद्ध कार्योपलब्धौ ॥ ६२ ॥ अन्तर्भावनीयमिति सम्बन्धः । शिवकस्य हि कार्य छत्रकं, तस्य कार्य स्थास इति । दृष्टान्तद्वारेण द्वितीयहेतुमुदाहरति नास्त्यत्र गुहायां मृगक्रीडनं मृगारिसंशब्दनात् । कारणविरुद्धार्यं विरुद्धका 'पलब्धौ यथेति ॥ ६३ ॥ मृगस्य हि कारणं मृगस्तस्य विरोधी मृगारिस्तस्य कार्य तच्छबदनमिति । इदं यथा विरुद्ध कार्योपलब्धावन्तर्भवति तथा प्रकृतमपीत्यर्थः । । बालव्युत्पत्यर्थं पञ्चावयवमयोग इत्युक्तं व्युत्पन्नं प्रति कथं प्रयोगनियम इति शङ्कायामाह - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362