Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 315
________________ प्रमेयरत्नमाला विकल्पसिद्ध तस्मिन्सत्तेतरे साध्ये ॥ २८ ॥ तस्मिन्धर्मिणि विकल्पसिद्धे सत्ता च तदपेक्षयेतराऽसत्ता च ते द्वे अपि साध्ये सुनिर्णीतासम्भवाद्वाधकप्रमाणबलेन योग्यानुपलब्धिबलेन चेति शेषः।। अत्रोदाहरणमाह अस्ति सर्वज्ञो नास्ति खरविषाणमिति ॥ २६ ॥ सुगमम् ॥ ननु धर्मिण्यसिद्धसत्ताके भावाभावोभयधर्माणामसिद्धविरुद्धानैकान्तिकत्वादनुमानविषयत्वायोगात् कथं सत्तेतरयोः साध्यत्वम् ? ॥ तदुकम्-असिद्धो भावधर्मश्चेव्यभिचार्युभयाश्रितः । विरुद्धो धर्मो भावस्य सा सत्ता साध्यते कथम् । इति ॥ तदयुक्तम्-मानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वात् ॥ न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वाद्वयर्थमनुमानम् । तदभ्युपेतमपि वैययात्यायदा परो न प्रतिपद्यते तदाऽनुमानस्य साफल्यात् ॥ न च मानसज्ञानाद्गगनकुसुमादेरपि सद्भावसम्भावनाऽतोऽतिमसङ्गः । तज्ज्ञानस्य बाधकमत्ययव्यपाकृतसत्ताकवस्तुविषयतया मानसप्रत्यक्षासत्वात कथं तर्हि तुरगङ्गादेर्धर्मित्वमिति न चोद्यम्-धर्मिमयोगकाले बाधकमत्ययानुदयात्सत्त्वसम्भावनोपपत्तेः ॥ न च सर्वज्ञादौ साधकप्रमाणासत्त्वेन सत्वं प्रति संशीतिः सुनिश्चितासम्भवाद्वाधकप्रमाणत्वेन सुखादाविव सत्त्वनिश्रयात्तत्र संशयायोगात् । इदानीं प्रमाणोभयसिद्ध धर्मिणि किं साध्यमित्याशङ्कायामाह प्रमाणोभयसिद्धे तु साध्यधर्मविशिष्टता ॥ ३० ॥ साध्ये इति शब्दः प्राक् द्विवचनान्तोऽप्यर्थवशादेकवचनान्ततया सम्ब ध्यते । प्रमाणं चोभयं च विकल्पप्रमाणद्वयं, ताभ्यां सिद्ध धर्मिणि साध्यधर्मविशिष्टता साध्या । अयमर्थः- प्रमाणप्रतिपन्नमपि वस्तु विशिष्टधर्माधारतया विवादपदमारोहतीति साध्यतां नातिवर्त्तत इति एवमुभयसिद्धेऽपि योज्यम् ॥ प्रमाणोभयसिद्धं धर्मिद्वयं क्रमेण दर्शयबाह अग्निमानयं देशः परिणामी शब्द इति यथा ॥ ३१॥ . देशो हि प्रत्यक्षेण सिद्धः शब्दस्तुभयसिद्धः। नहि प्रत्यक्षेणाग्दिर्शिभिरनियतदिग्देशकालावच्छिनाः सर्वे शब्दा निधेतुं पार्यन्ते । सर्वदर्शिनस्तु Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362