Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 323
________________ मेयरत्नमाला तद्भावभावित्वं तच्च तद्वयापाराश्रितं तस्मान प्रकृतयोः कार्यकारणभाव इत्यर्थः ॥ अयमर्थ:- अन्वयव्यतिरेकसमधिगम्यो हि सर्वत्र कार्यकारणभावः । तौ च कार्यम्प्रति कारणव्यापारसव्यपेक्षा वेवोपपद्येते कुलालस्येव कलशम्प्रति । न चातिव्यवहितेषु तद्व्यापाराश्रितत्वमिति ॥ सहचरस्याप्युकहेतुष्वनन्तर्भावं दर्शयति 1 सहचारिणोरपि परस्परपरिहारेणावस्थानात्सहोत्पादाच्च ॥ ६४ ॥ हेत्वन्तरत्वमिति शेषः । अयमभिप्रायः परस्परपरिहारेणोपालम्भात्तादात्म्यासम्भवात्स्वभावहेतावनन्तर्भावः । सहोत्पादाच्च न कार्ये कारणे वेति ।। न च समानसमयवर्तिनोः कार्यकारणभावः सव्येतरगोविषाणवत् । कार्यकारणयोः प्रतिनियमाभावप्रसङ्गाच्च । तस्माद्धेत्वन्तरत्वमेवेति ॥ इदानीं व्याप्यहेतुं क्रमप्राप्तमुदाहरन्नुक्तान्वयव्यतिरेकेपुरस्सरं प्रतिपाद्याशयवशात्मतिपादितप्रतिज्ञाद्यवयवपञ्चकं प्रदर्शयति परिणामी शब्दः कृतकत्वात् । य एवं स एवं दृष्टो, यथा घटः, कृतश्चायं तस्मात्परिणामीति, यस्तु न परिणामी स न कृतको दृष्टो यथा वन्ध्यास्तनन्धयः, कृतकश्चायं तस्मात्परिणामीति ॥ ६५ ॥ स्वोत्पत्तौ अपेक्षितव्यापारो हि भावः कृतक उच्यते । तच्च कृतकत्वं न कूटस्थ नित्यपक्षे नापि क्षणिकपक्षे किन्तु परिणामित्वे सत्येवेत्यग्रे वक्ष्यसे ॥ कार्यहेतुमाह— अस्त्यत्र देहिनि बुद्धिर्व्याहारादेः ॥ ६६ ॥ कारणहेतुमाह अस्त्यत्र च्छाया छत्रात् ॥ ६७ ॥ अथ पूर्वचरहेतुमाह Jain Education International उदेष्यति शकटं कृत्तिकोदयात् ॥ ६८ ॥ मुहूर्तान्ते इति सम्बन्धः ॥ अथोत्तरचरः ३६. -- For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362