Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 314
________________ प्रमेयरनमाला न चासिद्धवदिष्टं प्रतिवादिनः ॥ २३ ॥ अयमर्थः-न हि सर्व सर्वापेक्षया विशेषणमपि तु किश्चित्कमप्युद्दिश्य भवतीति । असिद्धवदिति व्यतिरेकमुखेनोदाहरणम् । यथा असिद्धं प्रतिवाद्यपेक्षया न तथेष्टमित्यर्थः । कुत एतदित्याह प्रत्यायनाय हीच्छा वक्तुरेव ॥ २४॥ . इच्छायाः खलु विषयी कृतमिष्टमुच्यते । प्रत्यायनाय हीच्छा वक्तुरेवेति ॥ तच्च साध्यं धर्मः किं वा तद्विशिष्टो धर्मीति प्रश्ने तद्भेदं दर्शयन्नाह साध्यं धर्मः कचित्तद्विशिष्टो वा धीति ॥ २५ ॥ सोपस्काराणि वाक्यानि भवन्ति । ततोऽयमों लभ्यते-व्याप्तिकालापेक्षया तु साध्यं धर्मः । कचित्प्रयोगकालापेक्षया तु तद्विशिष्टो धर्मी साध्यः ॥ अस्यैव धर्मिणो नामान्तरमाह पक्ष इति यावत् ॥ २६॥ ___ ननु धर्मधर्मिसमुदायः पक्ष इति पक्षस्वरूपस्य पुरातनैनिरूपितत्वाद्धर्मिणस्तद्वचने कथं न राद्धान्तविरोध इति ॥ नैवं-साध्यधर्माधारतया विशेषितस्य धर्मिणः पत्तत्ववचनेऽपि दोषानवकाशात् । रचनावैचित्र्यमात्रेण तात्पर्यस्यानिराकृतत्वात्सिद्धान्ताविरोधात् ॥ अत्राह सौगतः भवतु नाम धर्मी पक्षव्यपदेशभाक् तथापि सविकल्पबुद्धौ परिवर्तमान एव न वास्तवः। सर्व एवानुमानानुमेयव्यवहारो बुद्धयाख्ढेन धर्मधर्मिन्यायेन बहिः सदसत्त्वमपेक्षत इत्यभिधानादिति तन्निरासार्थमाह प्रसिद्धो धर्मीति ॥ २७ ॥ अयमर्थः- नेयं विकल्पबुद्धिर्बहिरन्तर्वा नासादितालम्बनभावा धर्मिणं व्यवस्थापयति । तदवास्तवत्वेन तदाधारसाध्यसाधनयोरपि वास्तवत्वानुपपत्तेस्तबुद्धः पारंपर्येणापि वस्तुव्यवस्थानिबन्धनत्वायोगात् । ततो विकल्पेनान्येन वा व्यवस्थापितः पर्वतादिर्विषयभावं भजन्नेव धर्मितां प्रतिपद्यत इति स्थितं प्रसिद्धो धर्मीति । तत्प्रसिद्धिश्च कचिद्विकल्पतः कचित्पमाणतः कचिचोभयत इति नैकान्तेन विकल्पाधिरूढस्य प्रमाणप्रसिद्धस्य वा धमित्वम्॥ ननु धर्मिणो विकल्पात्मतिपत्तौ किं तव साध्यमित्याशङ्कायामाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362