Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 312
________________ २८ मेयरत्नमाला श्रेयसी । न त्रिरूपता । तस्यां सत्यामपि यथोक्तलक्षणाभावे हेतोर्गमकत्वादर्शनात् ।। तथाहि - स श्यामस्तत्पुत्रत्वादितरतत्पुत्रवदित्यत्र त्रैरूप्य - सम्भवेऽपि न गमकत्वमुपलक्ष्यते । अथ विपक्षाद्वयावृत्तिर्नियमवती तत्र न दृश्यते । ततो न गमकत्वमिति । तदपि मुग्धविलसितमेव । तस्या एवाविनाभावरूपत्वात् ।। इतररूपसद्भावेऽपि तदभावे हेतो: स्वसाध्यसिद्धिम्प्रतिगमकत्वानिष्टौ सैव प्रधानं लक्षणमतुख्यमुपलक्षणीयमिति ।। तत्सद्भावे चेतररूपद्वयनिरपेक्षतया गमकत्वोपपत्तेश्च । यथा सन्त्यद्वैतवादिनोऽपि प्रमाणानिष्टानिष्टसाधनदूषणाऽन्यथाऽनुपपत्तेः । न चात्र पक्षधर्मत्वं सपक्षान्वयो वाऽस्ति । केवलमविनाभावमात्रेण गमकत्वप्रतीतेः।। यदप्य पर मुक्तं परैः पक्षधर्मताभावेऽपि काकस्य कायद्धवलः प्रासाद इत्यस्यापि गमकत्वापत्तिरिति तदप्यनेन निरस्तम् ॥ अन्यथानुपपत्तिबलेनैव पक्षधर्मस्यापि साधुत्वाभ्युपगमात् || न चेह साऽस्ति । ततोऽविनाभाव एव हेतोः प्रधानं लक्षणमभ्युपगन्तव्यम् । तस्मिन्सत्यसति त्रिलक्षणत्वेऽपि हेतोर्गमकत्वदर्शनादिति न त्रैरूप्यं हेतुलक्ष मव्यापकत्वात् ।। सर्वेषां क्षणिकत्वे साध्ये सत्वादेः साधनस्य सपक्षे सतोऽपि स्वयं सौगतैर्गमकत्वाभ्युपगमात् । एतेन पञ्चलक्षणत्वमपि यौगपरिकल्पितं न हेतोरुपपत्तिमियतीत्यभिहितं बोद्धव्यम् । पक्षधर्मत्वे सत्यन्वयव्यतिरेकावबाधितविषयत्वमसत्प्रतिपक्षत्वं चेति पञ्चलक्षणानि, तेषामप्यविनाभावप्रपञ्चतैवावाधितविषयस्याविनाभावायोगात् । सत्प्रतिपक्षस्येवेति साध्याभासविषयत्वेनासम्यग्धेतुत्वाच्च || यथोक्तपक्षविषयत्वाभावातदोषेणैव दुष्टत्वात् । अतः स्थितं साध्याविनाभावित्वेन निश्चितो हेतुरिति ॥ इदानीमविनाभावभेदं दर्शयन्नाह - सहक्रमभावनियमो ऽविनाभावः ॥ १६ ॥ तत्र सहभावनियमस्य विषयं दर्शयन्नाह - सहचारिणोर्व्याप्यव्यापकयोश्च सहभावः ॥ १७ ॥ सहचारिणो रूपरसयोर्व्याप्यव्यापकयोश्च वृक्षत्वशिंशपात्वयोरिति सप्तम्या विषयो निर्दिष्टः ।। क्रमभावनियमस्य विषयं दर्शयन्नाह - पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रमभावः ॥ १८ ॥ पूर्वोत्तरचारिणोः कृत्तिकोदयशकटोदययोः कार्यकारणयोश्च धूमधूम Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362