Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 318
________________ प्रमेयरत्नमाला व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्तिस्तत्रापि तद्विप्रतिपत्तावनवस्थानं स्यात् दृष्टान्तान्तरापेक्षणात् ॥ ४०॥ तत्रापि उदाहरणेऽपि। तद्विप्रतिपत्तौ सामान्यव्याप्तिविप्रतिपत्तावित्यर्थः ॥ शेष व्याख्यातम् ॥ तृतीयविकल्पे दूषणमाह नापि व्याप्तिस्मरणार्थ तथाविधहेतुप्रयोगादेव तत्स्मृतेः॥४१॥ गृहीतसम्बन्धस्य हेतुमदर्शनेनैव व्याप्तिसिद्धिरगृहीतसम्बन्धस्य दृष्टान्तशवेनापि न तत्स्मरणमनुभूतविषयत्वात्स्मरणस्यति भावः ॥ तदेवमुदाहरणप्रयोगस्य साध्यार्थ प्रति नोपयोगित्वं प्रत्युत संशयहेतुत्वमेवेति दर्शयतितत्परमभिधीयमानं साध्यधर्मिणि साध्य साधने सन्देहयति ॥ ४२ ॥ तदुदाहरणं परं केवलमभिधीयमानं साध्यधर्मिणि साध्यविशिष्टे धर्मिणि साध्यसाधने सन्देहयति सन्देहवती करोति । दृष्टान्तधार्माण साध्यव्याप्तसाधनोपदर्शनेऽपि साध्यधर्मिणि तनिर्णयस्य कर्तुमशक्यत्वादिति शेषः ॥ अमुमेवार्थ व्यतिरेकमुखेन समर्थयमानः प्राह कुतोऽन्यथोपनयनिगमने ॥ ४३ ॥ अन्यथा संशयहेतुत्वाभावे कस्माद्धेतोरुपनयनिगमने प्रयुज्यते ॥ अपरः प्राह-उपनयनिगमनयोरप्यनुमानाङ्गत्वमेव, तदप्रयोगे निरवकरसाध्यसंवित्तेरयोगादिति । तनिषेधार्थमाहन च ते तदङ्गे । साध्यधर्मिणि हेतुसाध्ययो वचनादेवासंशयात् ॥ ४४ ॥ ते उपनयनिगमने अपि वक्ष्यमाणलक्षणे तस्यानुमानस्याने न भवतः । साध्यधर्मािण हेतुसाध्ययोर्वचनादेवेत्येवकारेण दृष्टान्तादिकमन्तरेणेत्यर्थः ॥ किश्चाभिधायापि दृष्टान्तादिकं समर्थनमवश्यं वक्तव्यमसमर्थितस्याहेतुत्वादिति तदेव वरं हेतुरूपमनुमानावयवो वाऽस्तु साध्यसिद्धौतस्यैवोपयोगानोदाहरणादिकमेतदेवाह Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362