Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 320
________________ प्रमेयरत्नमाला - प्रतिज्ञायास्तु निगमनमिति ॥५१॥ उपसंहार इति वर्तते । प्रतिज्ञाया उपसंहारः साध्यधर्मविशिष्टत्वेन प्रदर्शनं निगमनामित्यर्थः ॥ ननु शास्त्रे दृष्टान्तादयो वक्तव्या एवेति नियमानभ्युपगमात्कथं तत्त्रयमिह सूरिभिः प्रपश्चितमिति न चोद्यम् । स्वयमनभ्युपगमेऽपि प्रतिपाद्यानुरोधेन जिनमतानुसारिभिः प्रयोगपरिपाट्याः प्रतिपन्नत्वात् । सा चाज्ञाततत्स्वरूपैः कर्तुं न शक्यत इति तत्स्वरूपमपि शास्त्रेऽभिधातव्यमेवेति॥ तदेवं मतभेदेन द्वित्रिचतुःपञ्चावयवरूपमनुमानं द्विप्रकारमेवेति दर्शयनाह ___ तदनुमानं द्वेधा ॥ ५२ ॥ तद्वैविध्यमेवाह स्वार्थपरार्थभेदादिति ॥ ५३॥ स्वपरविप्रतिपत्तिनिरासफलत्वाद्विविधमेवेति भावः स्वार्थानुमानभेदं दर्शयन्नाह ___ स्वार्थमुक्तलक्षणम् ॥५४ ॥ साधनात्साध्यविज्ञानमनुमानमिति मागुक्तं लक्षणं यस्य तत्तथोक्तमित्यर्थः॥ द्वितीयमनुमानभेदं दर्शयन्नाह___ परार्थं तु तदर्थपरामशिवचनाजातमिति ॥ ५५ ॥ तस्य स्वार्थानुमानस्यार्थः साध्यसाधनलक्षणः । तं परामृशतीत्येवं शीलं तदर्थपरामार्श । तच्च तद्वचनं च तस्माज्जातमुत्पन्न विज्ञानं परार्थानुमानमिति ॥ ननु वचनात्मकं परार्थानुमानं प्रसिद्धं, तत्कथं तदर्थपतिपादकवचनजनितविज्ञानस्य परार्थानुमानत्वमभिदधता न संगृहीतमिति न वाच्यम् । अचेतनस्य साक्षात्ममितिहेतुत्वाभावेन निरूपचरितप्रमाणभावाभावात् । मुख्यानुमानहेतुत्वेन तस्योपचरितानुमानव्यपदेशो न वार्यत एव ॥ तदेवोपचरितं परार्थानुमानत्वं तद्वचनस्याचार्यः माह ___ तद्वचनमपि तद्धेतुत्वादिति ॥ ५६ ॥ उपचारो हि मुख्याभावे सति प्रयोजने निमित्ते च प्रवर्तते । तत्र वचनस्य परार्थानुमानत्वे निमित्तं तद्धेतुत्वम् । तस्य प्रतिपाद्यानुमानस्य हेतुस्तद्ध Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362