Book Title: Parikshamukham
Author(s): Saratchandra Ghoshal
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 295
________________ मेयरत्नमाला ११ पत्तेः । अन्यथा प्रत्यक्षस्याप्यनुभूतार्थविपयत्वादप्रामाण्यमनिवार्य स्यात् स्वविषयावभासनं स्मरणेऽप्यवशिष्टमिति । किञ्च स्मृतेरप्रामाण्येऽनुमानवाऽपि दुर्लभा । तया व्याप्तेरविषयीकरणे तदुत्थानायोगादिति ॥ तत इदं वक्तव्यम् - " स्मृति: प्रमाणम्, अनुमानप्रामाण्यान्यथानुपपतेरिति" सैव प्रत्यक्षानुमानस्वरूपतया प्रमाणस्य द्वित्वसंख्या नियमं विघटयतीति किं नश्चिन्तया ॥ तथा प्रत्यभिज्ञानमपि सौगतीयप्रमाणसंख्या विघटयत्येव । तस्यापि प्रत्यक्षानुमानयोरनन्तर्भावात् ॥ ननु तदिति स्मरणमिदमिति प्रत्यक्षमिति ज्ञानद्वयमेव । न ताभ्यां विभिन्नं प्रत्यभिज्ञानाख्यं वयं प्रतिपद्यमानं प्रमाणान्तरमुपलभामहे । ततः कथं तेन प्रमाणसंख्याविघटनमिति तदप्यघटितमेव । यतः स्मरणप्रत्यक्षाभ्यां प्रत्यभिज्ञानविषयस्यार्थस्य गृहीतुमशक्यत्वात् । पूर्वोत्तर विवर्तवत्यैकद्रव्यं हि प्रत्यभिज्ञाविषयः । न च तत्स्मरणेनोपलभ्य ( दय ) - ते तस्यानुभूतविषयत्वात् । नापि प्रत्यक्षेण तस्य वर्तमानविवर्तवर्तित्वात् ॥ यदप्युक्तम् — “ ताभ्यां भिन्नमन्यत् ज्ञानं नास्तीति” । अभेदपरामर्शरूपतया भिन्नस्यैवावभासनात् । न च तयोरन्यतरस्य वा भेदपरामर्शकत्वमस्ति विभिन्नविषयत्वात् । नचैतत्प्रत्यचेऽन्तर्भवत्यनुमाने वा तयोः पुरोऽवस्थितार्थविषयत्वेनाविनाभूतलिङ्गसम्भावितार्थविषयत्वेन च पूर्वापर विकारव्याप्येकत्वाविषयत्वात् ।। नापि स्मरणे, तेनापि तदेकत्वस्याविषयी करणात् ।। अथ संस्कारस्मरणसह कृतमिन्द्रियमेव प्रत्यभिज्ञानं जनयतीन्द्रियजं चाध्यक्ष मेवेति न प्रमाणान्तरमित्यपरः । सोऽप्यतिबालिश एव । स्वविषयाभिमुख्येन प्रवर्त्तमानस्येन्द्रियस्य सहकारिशतसमवधानेsपि विषयान्तरप्रवृत्तिलक्षणातिशयायोगात् । विषयान्तरं चातीतसाम्प्रतिकावस्थाव्याप्येकद्रव्यमिन्द्रियाणां रूपादिगोचरचारित्वन चरितार्थत्वाच्च || नाप्यदृष्टसहकारिसव्यपेक्ष मिन्द्रियमेकत्वविषयं । उक्तदोषादेव || किश्वादृष्टसंस्कारादिसव्यपेक्षा देवात्मनस्तद्विज्ञानमिति किन्न कल्प्यते ? । दृश्यते हि स्वप्नसारस्वतचाण्डालिकादिविद्यासंस्कृतादात्मनो विशिष्टज्ञानोत्पत्तिरिति ॥ नन्वञ्जनादि संस्कृतमपि चतुः सातिशयमुपलभ्यते इति चेत् न तस्य स्वार्थानतिक्रमेणैवातिशयोपलब्धेर्न विषयान्तरग्रहणलक्षणातिशयस्य । तथाचोक्तम् — यत्राऽप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मास्यामरूपे श्रोत्रवृत्तित इति ॥ ३ ॥ नन्वस्य वार्तिकस्य सर्वशप्रति - Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362