________________
मेयरत्नमाला
११
पत्तेः । अन्यथा प्रत्यक्षस्याप्यनुभूतार्थविपयत्वादप्रामाण्यमनिवार्य स्यात् स्वविषयावभासनं स्मरणेऽप्यवशिष्टमिति । किञ्च स्मृतेरप्रामाण्येऽनुमानवाऽपि दुर्लभा । तया व्याप्तेरविषयीकरणे तदुत्थानायोगादिति ॥ तत इदं वक्तव्यम् - " स्मृति: प्रमाणम्, अनुमानप्रामाण्यान्यथानुपपतेरिति" सैव प्रत्यक्षानुमानस्वरूपतया प्रमाणस्य द्वित्वसंख्या नियमं विघटयतीति किं नश्चिन्तया ॥ तथा प्रत्यभिज्ञानमपि सौगतीयप्रमाणसंख्या विघटयत्येव । तस्यापि प्रत्यक्षानुमानयोरनन्तर्भावात् ॥ ननु तदिति स्मरणमिदमिति प्रत्यक्षमिति ज्ञानद्वयमेव । न ताभ्यां विभिन्नं प्रत्यभिज्ञानाख्यं वयं प्रतिपद्यमानं प्रमाणान्तरमुपलभामहे । ततः कथं तेन प्रमाणसंख्याविघटनमिति तदप्यघटितमेव । यतः स्मरणप्रत्यक्षाभ्यां प्रत्यभिज्ञानविषयस्यार्थस्य गृहीतुमशक्यत्वात् । पूर्वोत्तर विवर्तवत्यैकद्रव्यं हि प्रत्यभिज्ञाविषयः । न च तत्स्मरणेनोपलभ्य ( दय ) - ते तस्यानुभूतविषयत्वात् । नापि प्रत्यक्षेण तस्य वर्तमानविवर्तवर्तित्वात् ॥ यदप्युक्तम् — “ ताभ्यां भिन्नमन्यत् ज्ञानं नास्तीति” । अभेदपरामर्शरूपतया भिन्नस्यैवावभासनात् । न च तयोरन्यतरस्य वा भेदपरामर्शकत्वमस्ति विभिन्नविषयत्वात् । नचैतत्प्रत्यचेऽन्तर्भवत्यनुमाने वा तयोः पुरोऽवस्थितार्थविषयत्वेनाविनाभूतलिङ्गसम्भावितार्थविषयत्वेन च पूर्वापर विकारव्याप्येकत्वाविषयत्वात् ।। नापि स्मरणे, तेनापि तदेकत्वस्याविषयी करणात् ।। अथ संस्कारस्मरणसह कृतमिन्द्रियमेव प्रत्यभिज्ञानं जनयतीन्द्रियजं चाध्यक्ष मेवेति न प्रमाणान्तरमित्यपरः । सोऽप्यतिबालिश एव । स्वविषयाभिमुख्येन प्रवर्त्तमानस्येन्द्रियस्य सहकारिशतसमवधानेsपि विषयान्तरप्रवृत्तिलक्षणातिशयायोगात् । विषयान्तरं चातीतसाम्प्रतिकावस्थाव्याप्येकद्रव्यमिन्द्रियाणां रूपादिगोचरचारित्वन चरितार्थत्वाच्च || नाप्यदृष्टसहकारिसव्यपेक्ष मिन्द्रियमेकत्वविषयं । उक्तदोषादेव || किश्वादृष्टसंस्कारादिसव्यपेक्षा देवात्मनस्तद्विज्ञानमिति किन्न कल्प्यते ? । दृश्यते हि स्वप्नसारस्वतचाण्डालिकादिविद्यासंस्कृतादात्मनो विशिष्टज्ञानोत्पत्तिरिति ॥ नन्वञ्जनादि संस्कृतमपि चतुः सातिशयमुपलभ्यते इति चेत् न तस्य स्वार्थानतिक्रमेणैवातिशयोपलब्धेर्न विषयान्तरग्रहणलक्षणातिशयस्य । तथाचोक्तम् — यत्राऽप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात् । दूरसूक्ष्मास्यामरूपे श्रोत्रवृत्तित इति ॥ ३ ॥ नन्वस्य वार्तिकस्य सर्वशप्रति -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org