________________
प्रमेयरत्नमाला
निषिध्यते ? तत्र न तावत्माक्तनः पक्षः। तदुत्पादकस्य सुनिश्चितान्यथानुपपत्तिनियतनिश्चयलक्षणस्य साधनस्य सद्भावात् ।। नो खल्वप्युदीचीनः पतः । तदालम्बनस्य पावकादेः सकलविचारचतुरचेतसि सर्वदा प्रतीयमानत्वात् ॥ यदपि स्वभावहेतोर्व्यभिचारसम्भावनमुक्तम् तदप्यनुचितमेव स्वभावमात्रस्याहेतुत्त्वात् । व्याप्यरूपस्यैव स्वभावस्य व्यापकम्पति गमकत्वाभ्युपगमात् ॥ न च व्याप्यस्य व्यापकव्यभिचारित्वं व्याप्यत्त्वविरोधप्रसङ्गात् ॥ किश्च एवंवादिनो नाध्यक्षं प्रमाणं व्यवतिष्ठते । तत्राप्यसंवादस्यागौणत्वस्य च प्रामाण्याविनाभावित्वेन निश्चेतुमशक्यत्त्वात् । यच्च कार्यहेतोरप्यन्यथापि सम्भावनं तदप्यशिक्षितलक्षितं सुविवोचितस्य कार्यस्य कारणाव्यभिचारित्त्वात् । यादृशो हि धूमो ज्वलनकार्य भूधरनितम्बादावतिबहलधवलतया प्रसर्पन्नुपलभ्यते, न तादृशो गोपालघटिकादाविति ॥ यदप्युक्तम् "शक्रमूर्द्धनि धूमस्यान्यथापि भाव इति" तत्र किमयं शक्रमी अग्निस्वभावोऽन्यथा वा ? । यद्यग्निस्वभावस्तदाग्निरेवेति कथं तदुद्भूतधूमस्यान्यथाभावः शक्यते कल्पयितुम् ॥ अथानग्निस्वभावस्तदा तदुद्भवो धूम एव न भवतीति कथं तस्य तद्वयभिचारित्वमिति ॥ तथाचोक्तम्-अग्निस्वभावः शक्रस्य मुर्दा चेदग्निरेव सः। अथानग्निस्वभावोऽसौ धूमस्तत्र कथं भवेदिति ॥१॥ किञ्च प्रत्यक्षं प्रमाणमिति कथमयं परं प्रतिपादयेत् । परस्य प्रत्यक्षेण गृहीतुमशक्यत्त्वात् । व्याहारादिकार्यप्रदर्शनात्तं प्रतिपद्यतेति चेत्- आयातं तर्हि कार्यात्करणानुमानम् ॥ अथ लोकव्यवहारापेक्षयेष्यत एवानुमानमपि परलोकादावेवानभ्युपगमात्तदभावादिति । कथं तदभावोऽनुपलब्धेरिति चेत्तदाऽनुपलब्धिलिङ्गजनितमनुमानमपरमापतितमिति ॥ प्रत्यक्षप्रामाण्यमपि स्वभावहेतुजातानुमितिमन्तरेण नोपपत्तिमियर्तीति मागेवोक्तमित्युपरम्यते ॥ यदप्युक्तं धर्मकीर्तिना-प्रमाणेतरसामान्यस्थितेरन्यधियो गतेः । प्रमाणान्तरसद्भावः प्रतिषधाच्च कस्यचिदिति ॥ २ ॥ ततः प्रत्यक्षमनुमानमिति प्रमाणद्वयमेवेति सौगतः । सोऽपि न युक्तवादी । स्मृतेरविसंवादिन्यास्तृतीयायाः प्रमाणभूतायाः सद्भावात् ॥ न च तस्या विसंवादादप्रामाण्यम् । दत्तग्रहादिविलोपापत्तेः ॥ अथानुभूयमानस्य विषयस्याभावात् स्मृतेरमामाण्यं न तथापि अनुभूतेनार्थेन सालम्बनत्वोप
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org