________________
मेयरत्नमालां
पश्चादबाधबोधगुणज्ञानोत्तरकालं तदपोयत इति । तस्मात्मामाण्यमप्रामाण्यं वा स्वकार्ये कचिदभ्यासानभ्यासापेक्षया स्वतः परतश्चेति निर्णेतव्यमिति ॥ देवस्य सम्मतमपास्तसमस्तदोषं
वीक्ष्य प्रपञ्चरुचिरं रचितं समस्य ।
माणिक्यनन्दिविभुना शिशुबोधहेतोमनस्वरूपममुना स्फुटमभ्यधायि ॥ १ ॥ इति परीक्षामुखलघुवृत्तौ प्रमाणस्य स्वरूपोद्देशः ॥ १ ॥
-
अथ प्रमाणस्वरूपविप्रतिपत्तिं निरस्येदानीं संख्याविप्रतिपत्तिं प्रतिक्षिपन्सकलममारणभेदसन्दर्भ संग्रहपरं प्रमाणेयत्ताप्रतिपादकं वाक्यमाद॥ तद्द्वेधेति ॥ १ ॥
तच्छब्देन प्रमाणं परामृश्यते । तत्प्रमाणं स्वरूपेणावगतं द्वेधा द्विप्रकारमेव । सकलप्रमाणभेदानामत्रैवान्तर्भावात् । तद्विवमध्यक्षानुमानमकारेणापि सम्भवतीति तदाशङ्कानिराकरणार्थ सकलप्रमाणभेद संग्रहशालिनीं संख्यi orataरोति
Jain Education International
प्रत्यक्षेतरभेदादिति ॥ २॥
प्रत्यक्षं वच्यमाणलक्षणं, इतरत्परोक्षं, ताभ्यां भेदात्प्रमाणस्येति शेषः ।। न हि परपरिकल्पितैकद्वित्रिचतुःपञ्चषद्ममाणसंख्या नियमे निखिलप्रमाणभेदानामन्तर्भावविभावना शक्या कर्त्तुम् ।। तथाहि प्रत्यचैकप्रमाणवादिनश्वावस्य नाध्यते लैङ्गिकस्यान्तर्भावो युक्तः तस्य तद्विलक्षणत्वात् । सामग्रीस्वरूपभेदात् ॥ अथ नाप्रत्यक्षं प्रमाणमस्ति विसंवादसम्भवात् । निश्चिताविनाभावाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानमित्यानुमानिकशासनं । तंत्र च स्वभावलिङ्गस्य बहुलमन्यथाऽपि भावो दृश्यते । तथाहि कषायरसोपेतानामामलकानामेतद्देशकालसम्बन्धिनां दर्शनेऽपि देशान्तरे कालान्तरे द्रव्यान्तरसम्बन्धे च अन्यथाऽपि दर्शनात्स्वभावहेतुर्व्यभिचार्येव लताच्यूतवल्लताशिंशपादिसम्भावनाच्च ॥ तथा कार्यलिङ्गमपि गोपालघटिकादौ धूमस्य शक्रमूर्धिन चान्यथाऽपि भावात्पावकव्यभिचार्येव । ततः प्रत्यक्षमेवैकं प्रमाणमस्यैवाविसंवादकत्वादिति । तदेतद्बालविलसितमिवाभात्युपपत्तिशून्यत्वात् ॥ तथाहि-- किमप्रत्यक्षस्योत्पादककारणाभावादालम्बनाभावाद्वा प्रामाण्यं
-
For Personal & Private Use Only
www.jainelibrary.org