________________
प्रमयरत्नमाला गुणाः सन्तोऽपि न प्रामाण्योत्पत्तौ व्याप्रियन्ते किन्तु दोषाभाव एवेति ॥ सत्यमुक्तं, किन्तु न युक्तमेतत् । प्रतिज्ञामात्रेण साध्यसिढेरयोगात् । नहि गुणेभ्यो दोषाणामभाव इत्यत्र किश्चिन्निबन्धनमुत्पश्यामोऽन्यत्र महामोहात् ॥ अथानुमानेऽपि त्रिरूपलिङ्गमात्रजनितप्रामाण्योपलब्धिरेव तत्र हेतुरिति चेन्न । उक्तोत्तरत्वात् ॥ तत्र हि त्रैरूप्यमेव गुणो यथा तद्वैकल्यं दोष इति नासमतो हेतुः । अपि चाप्रामाण्येऽप्येवं वक्तुं शक्यत एव । तत्र हि दोषेभ्यो गुणानामभावस्तदभावाच्च प्रामाण्यासत्वे अपामाएयमात्सर्गिकमास्त इत्यप्रामाण्यं स्वत एवेति तस्य भिन्न कारणप्रभवत्ववर्णनमुन्मत्तभाषितमेव स्यात् ॥ किश्च गुणेभ्यो दोषाणामभाव इत्यभिदधता गुणेभ्यो गुणा एवेत्यभिहितं स्यात् । भावान्तरस्वभावत्वादभावस्य । ततोमामाण्यसत्त्वं प्रामाण्यमेवेति नैतावता परपक्षप्रतिक्षेपः। अविरोधकत्त्वात् । तथा अनुमानतोऽपि गुणाःप्रतीयन्त एव, तथाहि-मामाण्यं विज्ञानकारणाति रिक्तकारणमभवं, विज्ञानान्यत्वे सति कार्यत्वात् अप्रामाण्यवत् । तथा प्रमाणमामाण्ये भिन्नकारणजन्ये, भिन्नकार्यत्वात् । घटवस्त्रवदिति च ॥ ततः स्थितं प्रामाण्यमुत्पत्तौ परापेक्षमिति ॥ तथा विषयपरिच्छित्तिलक्षणे प्रवृत्तिलक्षणे वा स्वकार्ये स्वग्रहणं नापेक्षत इति नैकान्तः कच्चिदभ्यस्तविषय एव परानपेक्षत्वव्यवस्थानात् ॥ अनभ्यस्ते तु जलमरीचिकासाधारणप्रदेशे जलज्ञानं परापेक्षमेव । सत्यमिदं जलं, विशिष्टाकारधारित्वात् घट चेटिकापेटकदर्दुरारावसरोजगन्धवत्त्वाच्च, परिदृष्टजलवादित्यनुमानज्ञानादर्थक्रियाज्ञानाच्च, स्वतः सिद्धप्रामाण्यात्माचीनज्ञानस्य यथार्थत्वमाकल्पमवकल्प्यत एव ॥ यदप्यभिहितं प्रामाण्यग्रहणोत्तरकालमुत्पत्त्यवस्थातः परिच्छित्तेर्विशेषो नावभासत इति । तत्र यद्यभ्यस्तविषयेनावभासत इत्युच्यते तदा तदिष्यत एव । तत्र प्रथममेव निःसंशयं विषयपरिच्छित्तिविशेषाभ्युपगमात् । अनभ्यस्तविषये तु तद्ग्रहणोत्तरकालमस्त्येव विषयावधारणस्वभावपरिच्छित्तिविशेषः। पूर्व प्रमाणाप्रमाणसाधारण्या एव परिच्छित्तेरुत्पत्ते ॥ ननु प्रामाण्यपरिच्छित्योरभेदात्कथं पौर्वापर्यमिति १ । नैवम् । नहि सर्वाऽपि परिच्छित्तिः प्रामाएयात्मिका, प्रामाण्यं तु परिच्छित्त्यात्मकमेवेति न दोषः।। यदप्युक्तम्-बाधकारणदोषज्ञानाभ्यां प्रामाण्यमपोचत इति-तदपि फल्गुभाषितमेव । अपामाएयेऽपि तथा वक्तुं शक्यत्वात् ॥ तथाहि-प्रथममप्रमाणमेव ज्ञानमुत्पद्यते
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org